SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तामिति । गोपायतीति ‘गुपौ-रक्षणे' धातोः कर्तरि तृच्प्रत्यये गोपा(प्ता)-रक्षको सो दिलीपः । गृहमस्त्यस्यां, गृहशब्दात् अस्त्यर्थे इनि ततो ङ्यां च गृहिणी । “अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा र कलत्रं च" इति हैम: । गेहिनीत्यपि । गृहिणी भार्यायां, गेहकर्मकुशलायाम्। “गृहिणी सचिवः सखीमिथः" इति रघुः [सर्ग-८ श्लो० ६७] । सह अयते-गच्छतीति सहायः । यी "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैम:२ । “सहायः । सहचरेऽनुकूले च असावनुक्तोऽपि सहाय एव" इति कुमारः [सर्ग-३ श्लो०२१] । गृहिणी सहायो यस्य सः गृहिणीसहायः । अन्तोऽस्त्यस्य इत्यन्तशब्दाद् इकप्रत्यये अन्तिकम् । "पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी" इति हैम: । यद्वा । अन्त्यते सम्बध्यते सामीप्येनेति अन्त्धातोः घञ्प्रत्यये अन्तः, सोऽस्याऽस्तीति मत्वर्थीयठनि | 2. अन्तिकः । 'सामीप्यवति, स्वार्थे ठनि, सामीप्ये पुं०, चूल्ल्यां नपुं०, औषधिभेदे स्त्री० । * न्यस्यन्ते स्मेति निउपसर्गात् अस्धातोः कर्मणि ते न्यस्ताः त्रिलि० । “क्षिप्ते, त्यक्ते, सय KP विसृष्टे, निहिते च" । बलत्यनेनेति 'पदि-पठि-पचि-स्थलि-हलि-कलि- बलि-वलि वल्लि-पल्लि-कटि-चटि-वटि-बधि-गाध्यचि-वन्दि-नन्द्यवि-वशि-वाशि-काशि-छर्दि तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थिर श्रन्थि-जनि-मण्यादिभ्यः' ॥६०७॥ इति 'उणादिश्रीसि०'सूत्रेण बल्-प्राणनधान्यावरोधयोः । इति धातोः इप्रत्यये "बलिः पुंस्त्रीलिङ्गः" देवतोपहारः दानवश्च । "उपहारबली समौ" - | इति हैम: । "भूतयज्ञो बलिः" इति वा हैम: । यद्वा बल्धातोः इनप्रत्यये बलिः पुं० । a पूजोपहारे । "ददतुस्तौ बलिं चैव, निजगात्रासृगुक्षितं'' इति चण्डी । राजग्राह्ये भागे, उपप्लवे, चामरदण्डे, जैनेतरगृहस्थकर्तव्यपञ्चयज्ञमध्ये, भूतयज्ञे-'बलिकर्म ततः कुर्यात्' इति स्मृतिः । दैत्यभेदे, विरोचनपुत्रे च" । १. अभि० चि० तृ० ५१२-१३ । २. अभि० चि० तृ० ४९६ । ३. अभि० चि० ष० १४५०-५१ । ४. अभि० चि० तृ० ४४७ । ५. अभि० चि० तृ० ४२२ । * * Jain Education International ६५ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy