SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दुधातो वे घञि, दोहनं [वा] दोहः । अवसीयतेऽनेनेति अवसानम् । “आघाटस्तु घटोऽवधिः अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैम:' । 'पाणि०' मते * तु अवसाय: अवसानं नपुं०, अवपूर्वात् साधातो वे ल्युट्-"विरामे, समाप्तौ, सीमायां, - मृत्यौ च" । अत्र तु समाप्त्यर्थः विरामार्थो वा । दोहस्याऽवसानं दोहावसानम्, तस्मिन् । * दोहावसाने । निषीदति स्मेति निषण्णा, तां निषण्णाम्-आसीनाम् । दोहनशीला दोग्ध्रीम् । अत्र दुधातोस्तृन्प्रत्यये च स्त्रियां ङीपि दोग्ध्री । दोग्ध्रीमिति निरूपपदप्रयोगात् कामधेनुत्वं और HD * पुनातीति 'पु(पू)सन्यमिभ्य: पुनसनुतान्ताश्च' ॥९४७॥ इति 'उणादिश्रीसि०' व - सूत्रेण अप्रत्यये पुनादेशे च द्वित्वे च पुनः पुनः । “भूयोऽभीक्ष्णं पुनः पुनः असकृन्मुहुः" । 1 इति हैम: । "पाणि०"मते तु पण्धातोररुप्रत्यये पृषोदरादित्वात् पुनः-अव्ययम् । H "अवधारणे, भेदे, अधिकारे, पक्षान्तरे, द्वितीयवारे च" । अत्र तु द्वितीयवारार्थः । • इण्धातोर्वति प्रत्यये एव-अव्ययम् । “सादृश्ये, अनुयोगे, अवधारणे, चारनियोगे, विनिग्रहे, परिभवे ईषदर्थे च। विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदे यथा-'पार्थ एव धनुर्धर' इत्यादौ, या पार्थान्यपदार्थे प्रशस्त-धनुर्धरत्वं व्यवच्छिद्यते । विशेषणसङ्गतोऽयोगव्यवच्छेदे यथा'शङ्ख पाण्डुर एवे'त्यादौ, शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते । क्रियासङ्गतोऽ त्यन्तायोगव्यवच्छेदे यथा-'नीलं सरोजं भवत्येवे'त्यादौ, सरोजे नीलत्वात्यन्तायोगो र व्यवच्छिद्यते । गन्तरि त्रिलि० ।" अत्र तु अवधारणे । भेजे-सिषेवे || ___वाच्यपरिवर्तनं त्वेवम् -भुजोच्छिन्नरिपुणा दिलीपेन सदारस्य गुरोः पादौ निपीड्य च । सान्ध्यं विधिं च समाप्य दोहावसाने निषण्णा दोग्ध्री पुनरेव भेजे ॥ अरिक्षयकर्ता दिलीपः आश्रमं समागत्य दम्पत्योः वसिष्ठारुन्धत्योः पादौ भक्त्या । संवाह्य, मल्लिनाथमते तु पूर्वं वसिष्ठमरुन्धतीं च भक्त्या ववन्दे । ततो निजं सायंकालिकमनुष्ठानं ( समाप्य दोहो(हा)वसाने सुखासीनां तां नन्दिनीमेव पुनः सेवितवान्, इति सरलार्थः ॥२३॥ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥२४॥ १. अभि० चि० च० ९६२ । २. अभि० चि० ष० १५३१ । ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy