________________
णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥४॥
(विशेषावश्यकभाष्ये गा. ९३२-९३३ - ९३४-३४५९) सव्वगुणमूलभूओ भणिओ आयारपढमसुत्ते जं । गुरुकुलवासोऽवस्सं वसिज्ज तो तत्थ चरणत्थं ॥५॥
( धर्मरत्नप्रकरणे १२७) इत्यादि । तस्य गुरो:- वसिष्ठस्य । जैनमते तु ऋषिमुनिरूपस्य त्यागिनः सदारगुरोरभावादेतद्वर्णनमयुक्तमेवेत्यवसेयम् ।
पत्स्यते अपदि पेदे वा पाद: । 'पदरुजविशस्पृशो घञ्' (५|३|१६|| ) इति 'श्रीसि० 'सूत्रेण पद्धातोर्घञि पाद: । " चरणः क्रमणः पादः पदोंऽह्निश्चलन: क्रम:" इति, म: । 'पा' मते तु पद्यते गम्यतेऽनेनेति करणे घञि पाद: । " इज्यस्य चरणे, चतुर्थांशे, वृक्षादेर्मूले, पूज्ये, किरणे च" । अत्र तु चरणार्थः । पादौ चरणौ । न ( नि ) पीड्य : संवाह्य । अत्र स्त्रीपादसंवाहनमयुक्तं पुरुषस्येत्यभिसन्धाया' ऽभिवन्द्ये 'ति [ विवृतवान् ] मल्लिनाथ इत्यनुमीयते । सन्ध्यायां विहितः सान्ध्यः तं सान्ध्यं - सायंकालिकम् ।
विधीयतेऽनेनेति विधिः । "कल्पे विधिक्रमौ" इति हैम: २ । 'पाणि०' मते तु विधिः विपूर्वात् धाधातोः किप्रत्यये इनप्रत्यये वा विधिः " जगत्स्रष्टरि, ब्रह्मणि, भाग्ये, क्रमे, 'चिकीर्षा कृतिसान्ध्य (ध्य) त्वहेतुधीविषयो विधिः' इत्युक्ते, प्रवर्तनारूपे, नियोगे, . तज्जनके वाक्ये, विष्णौ, कर्मणि, गजभक्ष्यान्ने, वैद्ये, अप्राप्तप्रापकरूपे, वाक्यभेदे, 'संज्ञा च परिभाषा च विधिर्नियम एव च ।
अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते ।।' इति व्याकरणोक्ते सूत्रभेदे"
‘विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चाऽन्य[त्र] च प्राप्तौ परिसङ्ख्येति गीयते ॥ '
अत्र तु क्रमार्थः । तं विधिम् अनुष्ठानम् । समाप्य पूर्णीकृत्य ।
१. अभि० चि० तृ० ६१६ |
२. अभि० चि० तृ० ८३९ ।
Jain Education International
६३
For Private & Personal Use Only
www.jainelibrary.org