SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ON अनुवादः > हृदयवेधः एकः शरः एका च गदा । द्वावपि सोदरौ भ्रातृभगिन्यौ। शरो दुर्बलो लघुकश्च । गदा स्थूला गुर्वी च । सा निजशारीरिकसामर्थ्येन गर्वोत्रताऽऽसीत् । अत एकदा सा शरं कथितवती भोः शर ! यद्यपि त्वं मे भ्राताऽसि तथाऽपि तव भ्रातृत्वप्रभावाद् मम शोभा न्यूनीभवति । त्वमसि निर्बलः शुष्कशरीरश्च । अहं तु बृहत्काया बलवती च । मम भार गौरवपूर्णां मूर्ति दृष्ट्वा सर्वेऽपि मां नमस्यन्ति । अन्यथाऽहं तेषां मस्तकं स्फोटयिष्यामीति का ते जानन्ति । एतद्वैपरीत्येन त्वं तु नितरामकिञ्चित्करोऽसि । तव यत्किञ्चिदपि सम्माननं में भवति तद् ममैव प्रभावाद् भवति । अतस्तव जीवनं सर्वथा निष्फलं निरर्थकं च । त्वं का तु पद्यमिव तपस्वी लघुश्च । अहं तु गद्यमिव महत्त्वयुता गुर्वी च । अतो ममैव जीवनं । सफलं सार्थकं च । श्रुत्वैतत् सर्वं शरोऽवदत् भगिनि ! सत्यमेतद् यत् त्वं गुर्वी अहं तु लघुकः, त्वं बलवती शिरोभञ्जनी चाऽहं की तु दुर्बलः शुष्कदेहश्च । किन्त्वेतावन्मात्रेणैव त्वं महत्त्वयुता सप्रयोजना च, अहं तु अकिञ्चित्करो निष्प्रयोजनश्च; तव जीवनं सार्थकं मम तु व्यर्थं निष्फलं चेत्यादि सिद्धं न भवति । - यदि त्वं मामतिशयितुमेवाऽभिलषसि तर्हि यत् कार्यमहं करोमि तत् कृत्वा कर SL दर्शय। अहं हृदयवेधं करोमि । त्वमपि मस्तकस्फोटनाद् निवृत्य हृदयवेधे प्रवर्तस्व । तदाऽहं त्वां महत्त्वशालिनी मंस्ये । एतच्छ्रुत्वा गदा तूष्णीं जाता । सा मस्तकस्फोटने दक्षाऽऽसीत् किन्तु हृदयावित् तु शर एव । पद्यकार्यं साधयितुं गद्यं नाऽलं खलु !! [मूलकर्ता : बांग्लाभाषायां महाकवि श्रीरवीन्द्रनाथ टागोरः, कणिकानाम्नि मुक्तक-कवितिकासंग्रहे । तस्य गूर्जरानुवादः का रविप्रसादे श्रीरमणलालसोनीकृतः] Bra.Com ANATAANRASAIRAL ११४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy