SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अनुवादः जैनाचार्यश्रीसिद्धसेनदिवाकरसूरिः ____ (संक्षिपपरिचयः प्रदानं च) 600- ... गूर्जरभाषायां मुक्तभावानुवादः मू.ले. श्रीमावजीभाई सावला मधुसूदन-व्यासः संस्कृतविभागाध्यक्षः आर्ट्स कोलेज, है पो. शामलाजी. ३८३३५५ (गूज.) ___ परिचय :- वि.सं. १३३४ तमे वर्षे श्रीप्रभावचन्द्रसूरिभी रचितः 'प्रभावकचरित्रम्' नाम ग्रन्थः समुपलभ्यते । तत्राऽऽचार्यश्रीसिद्धसेनदिवाकरसूरे वनवृत्तमस्ति । तदनुसारेण Hars तस्य जन्मस्थलम् ‘उज्जयिनी'नगरमासीत् । 'सिद्धसेन' इति तस्य नामाऽऽसीत् । तस्य पिता च कात्यायनगोत्रीयो देवर्षिनामा ब्राह्मण आसीत् । सकलवेदविद्यापारगामित्वं तेन प्राप्तमासीत् । वादकलानैपुण्यं प्राप्तवतः सिद्धसेनस्य मनस्यहङ्कार आसीद् यद्, 'मां न कोऽपि वादे पराभवितुं शक्नोति' । अतस्तेन सङ्कल्पितं यद्, यदि नाम मां कोऽपि वादे ०६, पराजयेत्तदा तस्य शिष्यत्वमहमङ्गीकरिष्ये । जैनाचार्यश्रीवृद्धवादिसूरिभिः पराजितः स . स्वप्रतिज्ञानुसारेण तेषां शिष्यत्वमङ्गीचकार । पश्चाच्च जैनसाधुर्भूत्वा तेन जिनशासनोन्नतेरनेकानि ". कार्याणि कृतानि । तस्य योग्यत्वं विज्ञाय गुरुभिराचार्यपदे स्थापितः सः । तदनन्तरं स ॐ सिद्धसेनदिवाकरसूरिरित्याख्यया विश्रुतो जातः । यद्यपि तस्य समयो न सुस्पष्टतया निर्णीतः, तथाऽपि विक्रमस्य पञ्चमषष्ठशताब्द्योः तस्य विद्यमानताऽऽसीदिति विदुषां मतम् । 'सिद्धसेनशतक'नामके पुस्तके तत्सम्पादकेन । - मुनिश्रीभुवनचन्द्रेणैवं तर्कितं यद्, 'वि.सं. ६६६तमवर्षे श्रीजिनभ्रद्रगणिक्षमाश्रमणेन रचिते * 'विशेषावश्यकभाष्य'नामके ग्रन्थे श्रीसिद्धसेनदिवाकरसूरेः समुल्लेखः प्राप्यते । अत एतत् . सिद्धं भवति यत् सप्तमशताब्दीपूर्वमेव स सञ्जातः" । ११५ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy