________________
प्रदानम् - तेन सूरिणाऽर्थगभीरा विविधविषयका अनेके ग्रन्था रचिताः । तत्र ॐ... - प्राकृतगाथानिबद्धः 'श्रीसन्मतितर्कप्रकरण' नामको ग्रन्थोऽग्रेसरत्वं भजति । तत्र ग्रन्थे कर,
स्याद्वादस्याऽन्येषां वादानां च गभीरा चर्चा कृताऽस्ति । अस्योपरि श्रीअभयदेवसूरिभिवृहद . ॐ विवरणं कृतमस्ति । अस्य ग्रन्थरत्नस्य सम्पादनं पं. सुखलालजीमहोदय-पं. बेचरदासजीमहोदयाभ्यां महता परिश्रमेण विहितमस्ति ।
तेषामपरा कृतिरस्ति द्वात्रिंशद्वात्रिंशकेति । ताभ्यो द्वात्रिंशकाभ्य एकविंशतिद्वात्रिंशिका एव समुपलभ्यन्ते । शेषा द्वात्रिंशिकास्तु कथमपि कुत्राऽपि विनष्टा इति प्रतिभाति । एतासु द्वात्रिंशिकासु भगवतो महावीरस्य मार्गस्य लोकोत्तरता, तद्गुणानां वैशिष्ट्यम्, तत्त्वज्ञानम्, वादोपनिषद्, वादविवादस्य नैरर्थक्यम्, ब्रह्मतत्त्वम्, साङ्ख्यमतम्,
वैशेषिकदर्शनम्, बौद्धदर्शनम्, नियतिवादः (अस्या द्वात्रिंशिकायाः संशोधनपूर्वकः सविवेचनो का गूर्जरानुवादो मुनिश्रीभुवनचन्द्रजीमहाराजेन कृतोऽस्ति), मोक्षमार्गः, न्यायावतारः (अस्या . * अपि द्वात्रिंशिकाया बृहट्टीकोपलब्धाऽस्ति), इत्यादयो विविधा विषया निरूपिताः सन्ति । म
श्रीसिद्धसेनदिवाकरसूरिणा स्वजीवनवृत्तं कुत्राऽप्युल्लेखितं न दृश्यते किन्तु विभिन्नेषु । र प्राचीनग्रन्थेषु तत् किञ्चित् प्राप्यते । तत्सर्वमवलोक्य पं. श्रीसुखलालजीमहोदय-पं. १०... - श्रीबेचरदासजीमहोदयाभ्यां 'सन्मतितर्कप्रकरण'- ग्रन्थस्य प्रास्ताविके विशदतया वर्णितमस्ति।
अतो विशेषार्थिभिस्तत एवाऽवलोकनीयम् ।
जात: कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहं चिन्तारतमुपस्थितं करतले प्राप्तो निधि: सन्निधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये सन्तोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ।।
(सोमप्रभाचार्यरचिता सूक्तमुक्तावली ॥)
1987
११६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org