SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ र (सबल:) सिंहादिरित्यर्थः । ऊनं-दुर्बलम् हरिणादिकम् । न बबाधे-न पीडयामास ॥ वाच्यपरिवर्तनं त्वेवम्-गोप्तरि तस्मिन् (सति) वनं गाहमाने (सति) दवाग्निना वृष्ट्या विनाऽपि शेमे । फलपुष्पवृद्ध्या विशेषया अभूयत । सत्त्वेषु अधिकेन ऊनं न * - बबाधे ॥ अहो ! अलौकिक: प्रभावस्तस्य राजर्षेर्यस्मिन् प्रविष्टमात्र एव तस्मिन् महावने । वृष्ट्या विनाऽपि वनाग्निः शशाम, वृक्षलतादयोऽपि प्रभूतया फलपुष्पलक्ष्म्या चकासिरे, । का प्रबलाश्च जीवा निर्बलहिंसनात् विरेमुः । सबलो वन्यजन्तुर्दुर्बलं न बाधते स्म, इति । सरलार्थः ॥१४॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥१५॥ सञ्चारेति । पल्यते सम्पदा इति 'पल्(ल्ल)-गता'विति भ्वादिगणधातोः विपि । पल्, लूयते इति 'लू[ग्श्] छेदने' इति क्र्यादिगणधातोः कर्मणि अपि लवः, पल् चाऽसौ र लवश्च पल्लवः । “पल्लवोऽस्त्री किसलयम्" इत्यमरः । अभिनवः पत्रविस्तारः । “रागोऽनुरक्तौ का * मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः । अत्र रज्यतेऽनेनेति करणे ‘घबि' । 'घबि भावकरणे' (४।२।५२।।) इति 'श्रीसि०हेश०' सूत्रेण 'घञ्च (घनि च) भावकरणयोः' [६।४।२७।।] इति 'पाणिनीय'सूत्रेण च नलुपि रागः-वर्णविशेषः । आध्यात्मिकविचारे तु विषयेषु इमे शोभना इत्यध्यासेन 'रञ्जनस्वरूपाऽभिनिवेशात्मिका या चित्तवृत्तिः सा र रागः' पल्लवस्य रागः पल्लवरागः । ताम्यतीति इच्छार्थकदिवादिगणीय तम' धातोः अकि * दीर्घ ताम्रा । पल्लवराग इव ताम्रा पल्लवरागताम्रा । ___पतन् सन् गच्छतीति पतङ्गः, अथवा पततौ इति भ्वादिश्चुरादिश्च पतृ ऐश्ये चोर को दिवादिः । अत्र पततीति भ्वादिपतधातोः अङ्गचि पतङ्गः, तस्य पतङ्गस्य सूर्यस्य । * "पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः । “पतङ्गः सूर्ये शलभे खगे शालिभेदे मधूकवृक्षे । च" । प्रकर्षेण भातीति प्रभा-कान्तिः । मन्यते जगतस्त्रिकालावस्थामिति, मननशीलो वा सो मुनिः, तस्य मुनेः । धेनुः । च । दिशामन्तराणि तानि दिगन्तराणि-दिगवकाशान् । * १. अम० द्वि० वनौषधिवर्गे - १४ ।। ARREARS ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy