SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ "अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्य" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेतिपूतानि-शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा-विधाय । द्यति तमः, दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा “दिननग्न[ फेन-चिह्नबध्न-धेन स्तेन-और च्यौक्नादयः]'' ॥२६८।। औणादि०सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । “तत्रऽहर्दिवसो का * दिनम्, दिवं धुर्वासरो घस्रः" इति हैम: । दिनस्य अन्तो दिनान्तः, तस्मिन् दिनान्ते- सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातोः अचि निलयः । "गृहे, आवासस्थाने च" । तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे(य)व गन्तुं प्रचक्रमे-उपक्रान्तवती। 'प्रोपादारम्भे (३।३।५१॥) इति श्रीसिव्हेश०' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [१।३।४२॥] - । इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥ वाच्यपरिवर्तनं त्वेवम्-पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि * सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ।। अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्तभागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी * च जाता, इति सरलार्थः ॥१५॥ तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥ तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घत्रि लोकः । मध्यमश्चाऽसौ लोकश्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपाल:मर्त्यलोकाधिपः । देवन्ते इति देवाः, देवा एव देव्धम्तोः स्वार्थे तलि देवताः । "क्वचित्र स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते'' इति भाष्योक्तेः स्त्रीत्वम् । के 'देवता इन्द्रादौ सुरे' । पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति का * एकत्रेति अत्धातोः इथिनि अतिथयः । “अतिथिः अध्वयोगेन, आगन्तुके, गृहागते, विषये सब च" । तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थिति!त्तरकालमिति गतिः अनुमीयते । १. अम० तृ० नानार्थवर्गे - १९५ । * २. अभि० चि० द्वि० - १३८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy