________________
"स्युरावेशिक आगन्तुरतिथिर्ना गृहागते" इर्त्यमरः । अथवा नाऽस्ति तिथिर्येषां तेऽतिथयः । तथा चाऽऽह- तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥ इति कारिकोक्त्या तु सर्वत्यागवान् समभावभावितात्माऽनगार एव गृह्यते । गृहागतः । प्राघूर्णकादिस्तु अभ्यागतशब्देनोच्यते, अत्र तु न तथा । देवताश्च पितरश्च अतिथयश्च मे देवतापित्रतिथयः । क्रियते इति कृधातोर्भावे शप्रत्यये टापि च क्रिया । "क्रिया आरम्भे, और
चेष्टायां, इन्द्रियव्यापारे, पाकादिशब्दप्रवृत्तिनिमित्ते, फलव्यापाररूपे, धातोरर्थे, निष्कृतौ, * पूजायां, शिक्षायां, चिकित्सायां, करणे, गर्भधानादिसंस्कारे, व्यवहारपादविशेषे च" ।
देवतापित्रतिथीनां क्रियाः यागश्राद्धदानादिकाः । जैनमते तु स्तवनभक्तिसत्कारादिकाः देवता
पित्रतिथिक्रियाः । अर्यते-गम्यते-प्राप्यते इत्यर्थः, अथवा अर्थ्यतेऽसाविति अर्थधातोरचि * अर्थः । देवतापित्रतिथिक्रिया एव अर्थः-प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियार्था, तां
देवतापित्रतिथिक्रियाम् ।
___ तां धेनुम् । अनु अञ्चतीति अनुपूर्वात् अञ्चधातोः क्विपि अन्वक्-अनुपदम्, ॥ ययौ-जगाम । सताम्-उत्तमानाम् । । केषाञ्चिन्मते 'मनण-पूजायां' युजादिः । 'मनिण-स्तम्भे' स्तम्भो गर्वः,
चुरादिरात्मनेपदी, पक्षे मनतीति चन्द्रः । अन्यत्र 'मनिंच्-ज्ञाने' दिवादिः । 'मनूयि-बोधने का * तनादिः । अत्र तु गर्वार्थो न संभवति, तेन मन्यतेऽसाविति 'ज्ञानेच्छाईर्थजीच्छील्यादिभ्यः पर
क्तः' (५।२।९२।।) इति 'श्रीसि०हे०श०' सूत्रेण 'मतिबुद्धिपूजार्थेभ्यश्च [३।२।१८८॥] इति । * 'पाणिनीय' सूत्रेण च वर्तमाने 'क्ते' मतः, तेन मतेन-मान्येन । सतामित्यत्र 'कर्मणि * कृतः' (२।२।८३॥) इति 'श्रीसिव्हेश०' सूत्रेण 'क्तस्य च वर्तमाने' [२।३।६७॥] इति ।
'पाणिनीय'सूत्रेण च षष्ठी । तेन सतां मतेन, सद्भिः मान्येन, तेन-राज्ञा । उपपद्यते स्मेति र उपपन्ना-युक्ता । सा-धेनुः । सतां मतेन विधीयते इति विधिः, तेन विधिना-अनुष्ठानेन उपपन्ना-युक्ता । साक्षात् प्रत्यक्षा, श्रद्धा-आस्तिक्यबुद्धिरिव । बभौ-शुशुभे ।
'सद्भिर्मान्येन विधिना युक्ता श्रद्धोपपन्ने'ति कथनेन ज्ञानक्रियाभ्यां मोक्षः इति ।
. अम० वि० ब्रह्मवर्गे - ३६ ।
३५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org