________________
चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डलकूप इव ||४||
आचारपूतत्वात् स राजा जगत्पावनस्याऽपि सेव्य आसीदिति भावः ॥
वाच्यपरिवर्तनं त्वेवम्-गिरिनिर्झराणां तुषारैः पृक्तेनाऽनोकहाकम्पितपुष्पगन्धिना पवनेनाऽनातपत्र आतपक्लान्त आचारपूतः स सिषेवे ॥
पर्वतसरित्प्रवाहाणां शीतलान् वारिकणान् वहन् ईषत्कम्पितानां तरुपुष्पाणां गन्धं - वहन्मन्दः शीतलः सुगन्धः जगत्पावयन्गन्धवहः तस्मिन् वने छत्ररहितं आतपतापितं : सदाचारपवित्रं तं दिलीपं सेवितवान् इति सरलार्थः ॥१३॥
शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥१४॥ शशामेति । गोपायतीति गोप्ता, तस्मिन् गोप्तरि-रक्षयितरि । तस्मिन् दिलीपे. राज्ञि । वनम्-अरण्यम् । गाहतेऽसौ गाहमान:, तस्मिन् गाहमाने प्रविशति सति । वृष्ट्य • विनाऽपि - वर्षाणामभावेऽपि । दुनोतीति दवः । दवस्य अग्निः दवाग्निः - वनाग्निः “दवदावौ वनानले” इति हैम: १ । "दवदावौ वनारण्यवह्नी" इत्यमरः । अन्यत्र तु दवनं 'दव इति भावे 'दु' धातोरपि भवति उपतापे । शशाम शान्तो बभूव ।
फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः सस्यकुसुमवृद्धिः । “वृक्षादीनां फलं सस्यम्" इत्यमरः । विशिष्यत इति विशेषा; 'भावाऽकर्त्रीः' (५|३|१८|| ) इति 'श्रीसि० हे० श०' सूत्रेण, पाणिनीयमते तु बाहुलकात् . कर्मणि 'घञ्' - अतिशयिता । आसीत् - अभूत् । सत्त्वेषु जन्तुषु मध्ये 'सप्तमी चाऽविभागे.. निर्द्धारणे' (२|३|१०९ ||) इति 'श्रीसि० हे० श०' सूत्रेण, 'यतश्च निर्धारणम्' [२|३|४१ || ] - इति पाणिनीयसूत्रेण च सप्तमी । "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अधिक: - प्रबल:१. अभि० चि० अनेकार्थसङ्ग्रहे द्वि० ५१२ ।
२१४ । १५ ।
२२१ ।
२. अम० तृ० नानार्थवर्गे ३. अम० द्वि० वनौषधिवर्गे ४. अम० तृ० नानार्थवर्गे
Jain Education International
-
३२
For Private & Personal Use Only
www.jainelibrary.org