SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Hदार "श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।। समीरमारुतमरुज्जगत्प्राणसमीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः'' ॥ इत्यमरः । आतपात् त्रायते इत्यातपत्रम् । न विद्यते आतपत्रं यस्य स अनातपत्रः, तम् । अनातपत्रम् -व्रतार्थं परिहतछत्रम् । अत एव क्लाम्यते स्मेति क्लान्तः । आतपेन क्लान्तः । आतपक्लान्तः, तम् आतपक्लान्तम् । पूयते स्मेति पूतः । आचरेण पूतः आचारपूतः, तम् । आचारपूतम्-आचारशुद्धम् । तं-नृपम् । सिषेवे-सेवितवान् । अनेन 'आचारः प्रथमो - धर्मः' इति ज्ञापितम् । यद्यपि ज्ञानपूर्णः स्यात्तथाऽपि सामान्यदृष्ट्या आचारभ्रष्टः (नसेवनार्हः स्यात् ) । तथा चाह - शीलविहीनस्तु तथा श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥१॥ तथा चाऽऽहुः पूज्याःगुणसुट्ठियस्स घयमहुसित्तुव्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहीणो जह पईवो ॥१॥ (बृहत्कल्पभाष्यम् गा० २४५) तथा चाऽन्येनाऽप्युक्तम्क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु न । तथा पुष्टि जनयति यथा हि गुणवन्मुखात् पतितम् ॥२॥ शीतेऽप्ययनलब्धो न सेव्यतेऽग्निर्यथा स्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ १. अम० प्र० स्वर्गवर्गे - ७४-७५ । २. गुणसुस्थितस्य घृतमधुसिक्त इव पावको भाति । गुणहीनस्य न शोभते स स्नेहविहीनो यथा प्रदीपः ॥ (छायार्थः)।। ३१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy