________________
विपिनदेवताभिः । “अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् “इर्त्यमरः । उच्चैः 'उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:-"एकदिग्गामिनी कीर्तिः । सर्वदिग्गामुकं यशः" । "यशः कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । शुश्राव
श्रुतवान् ॥
वाच्यपरिवर्तनं त्वेवम्-तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु र - वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥
__ तस्मिन् वने एकान्तशीतलेषु वल्लरीकुञ्जेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । । वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं को ॐ वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः ॥१२॥
पृक्तस्तुषारैगिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥१३॥
पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्-पर्वतनिःसृतॐ वारिप्रवाहाणाम् । “वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुषारैः-सीकरैः । 'दन्त्यः का
सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । “तुषारो हिमदेशयोः ।
शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकार्थसंग्रहः । “तुषारौ हिमसीकरौ" * शाश्वतः, "तुषारः हिमे कर्पूरे शीते च" | पृच्यते स्मेति पृक्त:-सम्पृक्तः ।।
____ अनस:-शकटस्य अक:-गतिः अनोकः, अनोकं घ्नन्तीति अनोकहाः, कम्प्यन्ते - स्मेति कम्पितानि, आ-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च ।
आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)ऽस्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवनः-वातः ।
*
१. अम० द्वि० वनौषधिवर्ग-१ । ३. अम० द्वि० शैलवर्गे-५ ।
२. अम० प्र० शब्दादिवर्गे-११ । ४. अनेकार्थसंग्रहे तृ० ५५४-५५ ।
३० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org