________________
"लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी" इत्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तारः प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं-प्रयोजनं प्रकामविस्तारफलम् । आपुः-लेभिरे ॥
वाच्यपरिवर्तनम् - धनुर्भृतोऽप्यस्य दयाभावं (हरिणीनां) विशङ्करन्तःकरणैः । * आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥
धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत - इति ज्ञातम् । तेन च नृपस्य दयाभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः,
- तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । “विमलं कलुषीभवच्च चेतः कथयत्येव * हितैषिणं रिपुञ्चे"ति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः, इति सरलार्थः ॥११॥
स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥ स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, और तैः मारुतपूर्णरन्धैः-वायुपूरितछिद्रैः । “छिद्रं निर्व्यथनं रोकं रन्ध्र श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भिः-स्वनद्भिः । कीचकैः वेणुविशेषैः । ३
"वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुत* पूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत् , विशिष्टवाचकानां
पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् ।। को वंशः शुषिरवाद्यविशेषः । “वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं * वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा
स्यात्तथाऽऽपादितवंशकृत्यम्-संपादितशुषिरकार्यम् । कुञ्जेषु लतागृहेषु । “निकुञ्जकुऔ का
वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य देवता वनदेवताः, ताभिः वनदेवताभिःMP १. अम० द्वि मनुष्यवर्ग - ९४ । २. अम० प्र० पातालभोगिवर्गे - २ ।
३. अम० द्वि० वनौषधिवर्गे - १६१ । ४. अम० प्र० नाट्यवर्गे - ५ । | ५. अम० द्वि० शैलवर्गे - ९ ।
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org