SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ - स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥ स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि । शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिकनिष्कर्षः । एवं च तच्छब्दस्य का * बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणी भूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः । | उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्ति-खनन्ति भूमिम् - कि इति वराहः, आपर्वात् (हन्) धातोः 'ड:' "शूकरे स्त्रियां ङीप्, यज्ञवराहाख्ये, विष्णोरवतारभेदे पुं० पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" | वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति ‘पल्-गतौ' पल्धातोः 'शमिकमिपलिभ्यो । वलः' ।४९९॥ इति औणादिके वले पल्वलः पुंक्लीबः । “वेशन्तः पल्वलोऽल्पम्" इति का हैम: । अल्पं- सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु । तानि पल्वलो-त्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बहिणः । "मयूरो बहिणो बही" इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्यः । आ समन्ताद् वसन्ति लोका येषु ते । M आवासाः । आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । र आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि । * निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः' (६।२।७५॥) इति 'श्रीसि०हे०श०' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद् वे(ड्व)लची [४।२।८८॥] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः ।] "शाद्वल: शादहरिते शादः । कर्दमशष्पयोः" इति विश्वः । "शष्पकर्दमयोः शादः" इति शाश्वतः । अध्यास्यन्ते स्मेति र - अध्यासिताः। मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि. मृगाध्यासितशाद्वलानि । वराहबहिणशष्पादिमलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामायमानानि १. अभि० चि० चतु० - १०९५ । '२. अम० द्वि० सिंहादिवर्गे - ३२ । antiye ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy