SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ( 'डाच्लोहितादिभ्यः पित्' (३।४।३०।।) इति 'श्रीसिहे०श०' सूत्रेण षित् क्यङ् । * 'लोहितादिडाज्भ्यः क्यष्' [३।१।१३||] इति 'पाणिनीय'सूत्रेण च क्यष् । 'क्यङ्गो न वा' (३।३।४३॥) इति श्रीसिहे०श०' सूत्रेण 'वा क्यषः' [१।३।९०॥] इति 'पाणिनीय'क सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, म * तत आनश्, इति व्युत्पत्तौ 'श्रीसिव्हेश०' 'क्यङ्' (३।४।२६।।) इति सूत्रेण क्यङ्, तत - आनशः, 'कर्तुः क्यङ् सलोपश्च' [३।१।११।।] इति 'पाणिनीय'सूत्रेण क्यश् । ततः शानच् । वनानि । पश्यतीति पश्यन् , "शतृशानौ तिप्तेवत्" इति परस्मैपदे शतृप्रत्ययः, पर । सन् । ययौ-जगाम ॥ वाच्यपरिवर्तनं त्वेवम्-तेन पल्वलोत्तीर्णवराहयूथान्या[वा]सवृक्षोन्मुखबहिणानिमृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥ स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं व चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(ण)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान् मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि M पश्यन् वशिष्ठाश्रमं प्रति जगाम, इति सरलार्थः ॥१७॥ । आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥ ___आपीनेति । गिरति इति 'गृत्-निगरणे' इतिधातोः 'गो गृष् च' ॥६४९॥ इति को उणादि 'श्रीसि०हे०श०सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत् गर्भमिति वा का ग्रधातोः तिच्प्रत्यये पृषोदरादित्वात् 'पाणिनीय'मते गृष्टिः । सकृत्प्रसूतिका गौः । “गृष्टिः सकृत्प्रसूतिका" इति हैम:' । 'सकृत्प्रसूता गौः गृष्टि'रिति हलायुधः । इन्दतीति इन्द्रः, नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आङ्पूर्वात् 'ओप्यायैङ्* वृद्धौ' धातोः क्ते प्यायः पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्धूधसोः' (४।१।९३॥) इति श्रीसिव्हेश०' सूत्रेण 'प्यायः पी' [६।१।२८॥] इति 'पाणिनीय सूत्रेण च प्यादेशः । * 'डीयशव्यैदितः क्तयोः' (४।४।६१॥) इति 'श्रीसि०हेश०' सूत्रेण 'श्वीदितो निष्ठायाम्' * १. अभि० चि० चतु० १२६८ । ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy