________________
[ ७|२|१४|| ] इति 'पाणिनीयसूत्रेण च इग्निषेधे 'सूयत्याद्योदितः' (४/२/७०|) इति 'श्रीसि० हे०श०' सूत्रेण 'ओदितश्च' (८|२|४५ ||) इति 'पाणिनीय' सूत्रेण च तस्य 'नत्वम् । आपीन: पुंक्लीबलिङ्गः । आपीनम् ऊधः । " ऊधस्तु क्लीबमापीनम्" इत्र्त्यमरः । "आपीनमूधः" इति हैमः । आपीनस्य भारः आपीनभारः । उत्- ऊर्ध्वं वहनं उद्वहनम् । आपीनभारस्य उद्वहनम् आपीनभारोद्वहनम् । आपीनभारोद्वहनस्य प्रयत्न: आपीनभारोद्व- हनप्रयत्नः, तस्मात् आपीनभारोद्वहनप्रयत्नात् ।
वपुषः, उप्यन्ते देहान्तरभोगसाधनबीजभूतानि कर्माण्यत्रेति वप्धातोः उसि वपुस् । “ वपुः शरीरे, प्रशस्ताकारे च" । तस्य वपुषः - शरीरस्य । गुरोः भावः गुरुत्वम्, तस्माद् - गुरुत्वात् - स्थौल्यात् । अञ्च्येते इति पूजार्थक' अञ्च' धातोः कर्मणि वर्तमाने के, ताभ्याम् - अञ्चिताभ्याम् । मन्दमन्दगमनेन प्रशस्ताभ्याम् । गमने इति गते, ताभ्यां गताभ्याम् । तपसः वनं तपोवनम् । तपोवनादावृत्तिः तपोवनावृत्ति: । तपोवनावृत्तेः पन्थाः तपोवनावृत्तिपथ:, तं तपोवनावृत्तिपथम् । 'ऋक्पूः पथ्यपोऽत् (७|३|७६ ||) इति 'श्रीसि० हे० श०' सूत्रेण, समासान्तोऽत् । ऋक्पूरब्धूः पथामानक्षे [ ५/४/७४ || ] इति 'पाणिनीय' सूत्रेण च समासान्तो 'अ' प्रत्ययः । अलञ्चक्रतुः - भूषयामासतुः ॥
वाच्यपरिवर्तनं त्वेवम् गृष्ट्या नरेन्द्रेण च उभाभ्यां आपीनभारोद्वहनप्रयत्नाद् पुष गुरुत्वात् अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथ: अलञ्चक्रे ।।
सा नन्दिनी महोधोभारात् दिलीपश्च नृपः शरीरभाराद् द्वावपि मन्दं मन्दं गमनेन तपोवनावृत्तिमार्गमलञ्चक्रतुः, इति सरलार्थः ॥१८॥
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपतिरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥ वसिष्ठधेनोरिति । अतिशयेन वसुमान् वसिष्ठः । 'गुणाङ्गाद् [वेष्ठेयसू]' (७|३।९।।) [सि०] इति इष्ठे ‘विन्-मतोर्नि (र्णी) ष्ठे [ यसौ लुप् ] ' [७|४|३२||][सि०] इति मतोर्लुपि 'त्रन्त्यस्वराऽऽदेः' (७|४|४३||) [सि०] इत्यन्त्यस्वरादिलोपे वसिष्ठः । अरुन्धती जायाऽस्येति 'जायाया जानि:' ( ७।३।१६४ | | ) इति [ सि०] सूत्रेण जान्यादेशे अरुन्धतीजानिः । १. अम० द्वि० वैश्यवर्गे - ७४ । २. अभि० चि० चतु० १२७२ ।
Jain Education International
३९
For Private & Personal Use Only
www.jainelibrary.org