________________
SAI
ANTRA
"वशिष्ठोऽरुन्धतीजानिः" इति हैम:' । वसिष्ठस्य धेनुः वसिष्ठधेनुः, तस्याः वसिष्ठधेनोः ।। अनुयातीति अनुयायी, तम् अनुयायिनम्-अनुचरम् । वनस्याऽन्तः वनान्तः, तस्माद् ।
वनान्तात् । आवर्ततेऽसौ आवर्तमानः, तम् आवर्तमानं-प्रत्यागतम् । तं दिलीपम् । वन्यतेसे भज्यते स्म वनिता-सुदक्षिणा । "स्त्री नारी वनिता वधूः, वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला, योषा योषित् ॥ इति हैम: ।
'पच्यते विस्तीर्यते सात्मन्नात्मन्' ॥९९६॥ इति 'औणादिश्रीसि०' सूत्रेण मनि से निपातने, पक्ष्म पुंक्लीबलिङ्गः । “पक्ष्म स्याद् नेत्ररोमणि" इति हैम: । पञ्च्यते इति । * पङ्क्तिः । “राजिर्लेखा ततिर्वीथी, मालाल्यावलिपङ्क्त्यः , धोरणी श्रेणी" इति हैम: । - पक्ष्मणां पतिः पक्ष्मपतिः । निमेषेषु, निमेषणानि निमेषाः । “निमेषस्तु निमीलनम्" इति
हैम: । न लसतीत्यलसः अलतीति वा तप्यणि-पन्यल्यधि-रधि-नाभि-नम्यमि-चमि। तमि-चट्यति-पतेरसः ॥५६९।। इति 'औणादिश्रीसि०' सूत्रेणाऽसि अलसः। और
"अथाऽऽलस्यः शीतकोऽलसः, मन्दस्तुन्दपरिमृजोऽनुष्णः" इति हैम:६ । अलसा * पक्ष्मपति-र्यस्याः सा निमेषालसपक्ष्मपङ्क्तिः -निर्निमेषा सतीत्यर्थः । लोच्यते आभ्याम् । - लोचने । "चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैम: ।
लोचनाभ्यां-करणाभ्याम् । उपवसतः स्मेति उपोषिते, ताभ्याम् उपोषिताभ्यांमा बुभुक्षिताभ्याम् । वसतेः कर्तरि क्तः । उपवासः - भोजननिवृत्तिः । इव । पपौ-पीतवती । की यथोपोषितोऽतितृष्णया जलमधिकं पिबति, तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः । ।
अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथः चतुर्विधाहारत्यागरूप एव वास्तव उपवासः, न तु फलाहाररूपः इति ज्ञापयति । उपवासो भोजननिवृत्तिरिति व्याख्यानेन च और त्रिधाहारत्यागरूपस्याऽप्युपवासत्वं सङ्गच्छत एव । अनेन जैनमते यत् त्रिधाहारत्यागरूपं । चतुर्विधाहारत्यागरूपं वोपवासरूपं (तत्) सङ्गतिमियति । चतुर्विधाहारत्यागरूप उत्कृष्टः, - त्रिधाहारत्यागरूपो जघन्यः । फलाहारकरणे तु उपवासभङ्गः प्रचुरदोषसम्भवश्च । १. अभि० चि० तृ० ८४९ ।
२. अभि० चि० तृ० ५०३-४ । ३. अभि० चि० तृ० ५८० ।
४. अभि० चि० ष० १४२३ । ५. अभि० चि० तृ० ५७८ ।
६. अभि० चि० तृ० ३८३-८४ । ७. अभि० चि० तृ० ५७५ ।
A
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org