________________
इति प्रपूर्वात् जन्धातो: 'क्वचित्' (५|१|१७१ | | ) इति 'श्रीसि० ' सूत्रेण प्रत्यये प्रजा । " सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । "लोको जनः प्रजा" इति च हैम:। “प्रजा स्यात् सन्ततौ जने" इत्यमरश्च । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, . प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥५४७॥ इति 'उणादिश्रीसि० 'सूत्रेण 'मह - पूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च । " कृताभिषेका महिषी" इति हैम: । 'नृपस्त्रीत्युत्तरत:: सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वृत्तिः । " कृताभिषेका महिषी". इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो ङि ( ङी) पि महिषी । 'राज्ञः कृताभिषेकायां' • महिषजातिस्त्रियाम् औषधिभेदे च' । अत्र तु पट्टराज्ञी महिषी, तया महिष्या ।
सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । “साकं सत्रा समं सार्धममा सह” इति हैमः५ । ‘यथाऽस्मदुपज्ञे द्वयाश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि • नभसा समम्" । 'ज्योत्स्न्य (न्या) माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वृत्तौ यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" । 'सममेव समाक्रान्तं द्वयम्' इति रघु: [ सर्ग - ४ श्लो०४] । अत्र समं सह ।
व्रियते उपवासाद्यत्रेति 'पृषि - रञ्जि - सिकि-का- ला-वृभ्यः कित्' ॥२०८॥ इति'उणादिश्रीसि० 'सूत्रेण 'वृगट्-वरणे' इति धातो: किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । "नियमः पुण्यकं व्रतम्" इति हैम: । जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । • देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा, अपि व्रतानि गीयन्ते । " व्रतं लक्षणभेदे पुण्यसाधने उपवासादिनियमभेदे च " । अत्र तु - जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् ।
धारयतीति चुरादि'धृ' धातो: णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतःअनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मह् - पूजायां' धातोरनीयप्रत्यये महनीया
१. अभि० चि० तृ० ५०१ । ३. अभि० चि० तृ० ५२० । ५. अभि० चि० ष० १५२७ ।
Jain Education International
२. अम० तृ० नानार्थवर्गे ३८ । ४. अम० द्वि० मनुष्यवर्गे - ५ । ६. अभि० चि० तृ० ८४३ ।
६८
For Private & Personal Use Only
-
www.jainelibrary.org