________________
पूज्या । 'पाणि०' मते च अनायरप्रत्यये । कीर्त्यते इति 'साति-हेति-यूति-जूति-ज्ञप्तिG, कीर्त्तिः' (५।३।९४।।) इति 'श्रीसि०'सूत्रेण 'कृतत्-संशब्दने' धातोः भावाकोंः Miक्तिप्रत्ययान्तनिपातने कीर्तिः-यशः । "श्लोकः कीर्तिर्यशोऽभिख्या समाजा" इति हैम: । र - 'पाणि०'मते चुरादि ‘कृत्' धातोः कर्मणि क्तिनि कीर्त्यते इति कीर्तिः यशसि ।
"एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" ।
यद्वा
___ "दानपुण्यफला कीर्तिः पराक्रमकृतं यशः" इति ।
यश:कीोरर्थभेदोऽप्यन्यत्र । अत्र तु यशसि । महनीया कीर्तिर्यस्य सः महनीयकीर्तिः, तस्य महनीयकीर्तेः-प्रशस्तयशसः ।
__दीयते स्मेति 'सि०'मते दीच् क्षये, 'पा०' मते तु 'दी-क्षये' इति धातोः कर्तरि ते तस्य च नत्वे "दीनः त्रिलिङ्गः । “दुःखिते, भीते च, तगरपुष्पे नपुं०, मूषिकायां स्त्री०" । उद्हरणं उद्धरणं वेति उत्-उपसर्गपूर्वात् ह-धृधातोः 'सि० मते भावेऽनटि, पा०'मते च ल्युटि उद्धरणम् । दीनानामुद्धरणम् दीनोद्धरणम् । उच्यते स्मेति उचित:
योग्यः । "न्याय्यं तूचितं युक्तसांप्रते लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च" इति । है हैम:२ । 'वच्-परिभाषणे' धातोः 'उवच्-समवाये' धातोर्वा कर्मणि क्ते, 'पाणि 'मते । उच्धातोः क्ते वच्धातोः कितच्प्रत्यये वा उचितः त्रिलिङ्गः ।" न्यस्ते, परिचिते, युक्ते" । . अत्र तु परिचितार्थः । दीनोद्धरणे उचित:-परिचितः दीनोद्धरणोचितः, तस्य दीनोद्धरणो। चितस्य दीनजनरक्षणनिरतस्य ।
तनोति तनुते वेति तन्धातोः अदि डिति च तत्रशब्दः त्रिलि० । "पूर्वोक्ते, बुद्धिस्थे, परामर्शयोग्ये, विप्रकृष्टविषये च; ब्रह्मणि नपुं०" । "औं तत्सत् इति निर्देशो ब्राह्मणः" इति गीता । तस्य-षष्ठ्येकवचने तस्य-दिलीपस्य । 'तृ-प्लवनतरणयोः' धातोडिन्प्रत्यये तरन्तीति त्रयो बहुवचनान्तस्त्रिलि० त्रित्वसङ्ख्याविशिष्टे । स्त्रियां तिस्रादेशः,
१. अभि० चि० द्वि० २७३ । HD २. अभि० चि० तृ० ७४३ ।
६९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org