________________
तिस्र इत्यादि । गुण्यते इति गुणः - उपसर्जनम् । “गुणोपसर्जनोपाग्राण्यप्रधाने" इति हैमः । गुण्यते अभ्यस्यते इति गुणः- रज्जुः मौर्वी च । “शुल्बं (म्बं) वराटको रज्जुः शुल्वं तन्त्र वही गुणः" इति (हैम: २ ) । "मौर्वी जीवो (वा) गुणो गव्या शिञ्जा बाणासनं दुणा [शिञ्जिनी ज्या च]" इति च हैम:' । 'पाणि०' मते तु गुण्धातोरचि घञि वा गुणः । "धनुषो मौर्व्यां धनुराकर्षणदामनि, रज्जुमात्रे ।
" सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जती "त्युद्भटः । शौर्यादिधर्मे, राज्ञां - सन्धिविग्रहादिषु, षट्सु साधनेषु ।
'षाड्गुण्यमुपयुञ्जीत' इति माघः [ सर्ग २ श्लो०९३] ।
ज्ञानविनयादिषु 'गुणागुणानुबन्धित्वात्' इति रघुः [सर्ग १ श्लो०२२]। साङ्ख्यमते 'पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्त्वर• जस्तमआदिषु पदार्थेषु' । 'प्रकृतेर्गुणसंमूढा सज्यन्ते गुणकर्मसु ' इति गीता । अप्रधाने । न्यायमते रूपादिचतुर्विंशतिभेदभिन्ने पदार्थे । व्याकरणोक्ते"सत्त्वे निविशतेऽवैति, पृथग्जातिषु दृश्यते' । 'आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिः गुणः ।'
इत्युक्ते द्रव्यमात्राश्रिते । द्रव्यभिन्ने उत्पाद्यानुत्पाद्यतासमानाधिकरणे, सिद्धधर्मे, वस्तुधर्मे । व्याकरणपरिभाषिते 'अदेङ् गुणः' इत्युक्ते अकारे एकारे ओकारे च . 'गुणोऽरेदोत्' इत्युक्ते अरि एकारे ओकारे च । अलङ्कारोक्तेषु माधुर्यादिषु । आवृत्तौ, तन्तौ, उत्कर्षे, दूर्वायां च । जैनमते सहभाविनि, पर्याये च । अत्र त्वावृत्त्यर्थः । यो गुण आवृत्तयो येषां तानि त्रिगुणानि - त्रिरावृत्तानि ।
सप्धातोः कनिनि तुटि च, अथवा सप्धातोः तनिन्प्रत्यये वा सप्तन् । "सप्तत्वविशिष्टे सङ्ख्याविशेषे, तत्सङ्ख्यायां च " । सप्त । दीव्यति रविरत्रेति यद्वा द्यति तम इति - दोंच्धातोर्नक्प्रत्यये "दिनं सूर्यकिरणोपलक्षिते षष्टिदण्डात्मके तद्विशिष्टे अवखण्डने वा
२. अभि० चि० तृ० ९२८ ।
१. अभि० चि० ष० १४४१ । ३. अभि० चि० तृ० ७७६ ।
Jain Education International
७०
For Private & Personal Use Only
www.jainelibrary.org