SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अद्यतनकाले त्वेतत् कथनमरण्यरुदनमेव, गोरग्रे गीतापाठो वा, महिषस्याऽग्रे महाभारतं वा, उन्मत्तस्याऽग्रे उपनिषद्वर्णनं वेव समजायते । अतोऽलमनेन । किन्तु न विस्मर्तव्यमस्माभिरेतद् यन्न किञ्चिदपि दुराचरितं निष्फलं भवति, तत्फलं यदा कदाऽपि भोक्तव्यमेव भवति । वयमस्माकं मिथ्याभिमानं दुराग्रहं तर्कजातं वा मुक्त्वा यदि चिन्तने प्रवत्स्यामहे तदा त्ववश्यमेवैतत्सत्यं प्रतिभास्यति । अत्राऽस्माकं कृते तु प्रार्थनमेव शरणम्- “भगवन् ! समेषां सन्मतिं दद्या:' इति । कीर्तित्रयी वसन्तपञ्चमी २०६१ भद्रेश्वरतीर्थम् (कच्छ) *2 5399-235R $30 SER R R R R ? बहुभिर्वर्षैः प्रश्न एको मम चित्तं सततमुद्वेजयति यद् - 'यो देशो भव्यायाः संस्कृतेः परम्परामुद्वहति, यत्र च भूमावुन्नताऽऽध्यात्मिकता विकासं प्राप्ता - तत्रत्या मनुष्याः किमर्थमेतावद्दीर्घकालं यावत् परतन्त्रा एवाऽवातिष्ठन् ?' इति । किञ्च, सहैवाऽन्योऽपि प्रश्नः समुपस्थितो यद्- 'पुराणेष्वपि किमर्थमेवमेव परिदृश्यते यत् शक्तिस्तु सदा राक्षसाधीना एवाऽऽसीत्, न देवाधीना ? किमर्थं देवाः शक्तिहीना: ? किमर्थं वा राक्षसाः शक्तिसम्पन्नाः ?' - इति । प्रश्नस्याऽस्य पुनः पुनश्चिन्तनेन प्रत्युत्तर एकश्चित्ते प्रस्फुरितो यद् ये राक्षसा आसन् ते सर्वेऽपि पूर्वं तपस्विन आसन् । उग्रं तप आचरितं तैः । किन्तु तपःप्रभावाद् या शक्तिः समुत्पन्ना सा भोगकार्य एव विनियुक्ता तैः, अतस्ते राक्षसा जाता: । - अतः, देशस्याऽस्य स्थितिः कथमेवंरूपा जाता ? इति विचारिते प्रतिभाति यद् ये तपस्विन आसन् ते भोगिनो जाताः । तपस्विनश्च यदा पतनं भवति तदा स दानव एव सम्पद्यते, नाऽन्यः कश्चित् । दानवानां न भिन्ना काऽपि जातिर्भवति । ये दानवा आसन् प्रह्लादस्य पिता, कृष्णस्य मातुलः, रावण इत्यादयः ते सर्वेऽप्यस्माकं स्वजन सम्बन्धिनश्चैवाऽऽसन् । - अथ मम प्रथमः प्रश्नः - यत्र तु सर्वोच्चमाध्यात्मिकं दर्शनं विकसितं स देशः स्वकीये इतिहासे किमर्थमधिकतया परतन्त्रः, अल्पतयैव च स्वाधीनोऽवातिष्ठत् ? इति यदा विचार्यते तदा त्वेकमेव कारणं तत्र स्फुरति यदस्य देशस्य जनानां भाषा (वचन- विचारादिकं ) तु सदाऽध्यात्मेन सम्बद्धा एव प्रवर्तते किन्तु तेषां प्रेरणा लिप्सा वा सदा भौतिकी एव वर्तते । पाश्चात्या जनास्तु यद्यपि केवलं भौतिकाः किन्तु प्रामाणिका: । अस्माकं देशे तु भौतिकी प्रामाणिकतैव नास्ति, भौतिक्याकाङ्क्षा एव केवलं प्रवर्तते इति । ( गूर्जरभाषायां मू.ले. दादाधर्माधिकारी) Jain Education International - $30-$30R-5302-FOR-SEER SOER-SX SEX SCR SOR OR SOX OR SOX XXXX వారికీ దారికి తెపలకి పనికి బాలN KS WE GES రికి వారికి 5 For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy