SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः जयतु संस्कृतम् जयतु भारतम् आत्मीयबन्धो ! नमस्ते । भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः (२००४-१२, वि.सं. २०६०) । यद्यपि दृष्ट्वा (पुस्तकं) आनन्दं प्राप्तवती तथापि पठित्वा महानन्दम् अनुभवामि । अग्रिम- पुस्तकानि कदा आगमिष्यन्ति इत्यपि वाञ्छा भवति । पठितं विषयं पुनः पुनः पठितुम् इच्छा अपि उत्पन्ना भवति ।। अतः नन्दनवनकल्पतरुः पुरातनपुस्तकं (वि.सं. २००१) अपि नूतनम् एव । मम मातृभाषा तामिलभाषा । तस्यां भाषायां बहुविधनीतिवाक्यानि (Proverbs) क्रीडारूपेण वदामः । तादृशं संस्कृते कथं वदामि इति चिन्तामग्ना आसम् । तदा "आभाणकजगन्नाथः" दृष्ट्वा बहु सन्तोषः अभवत् । नन्दनवनकल्पतरुः संस्कृतपठनाय बहु उपयोगी अस्ति । B-54/5, D.R.O.Colony, भवदीया K.Pudur, Madurai-625007 (Tamilnadu). टि.कला मान्याः , सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' त्रयोदशोऽङ्कोऽधिगतः । 'प्रास्ताविके' जागरणाय या प्रेरणा प्रदत्ता, सा मर्म संस्पृशति । डा. रामकिशोर मिश्रस्य 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' इति लेखः शोधात्मकं विवरणं प्रस्तौति । 'मङ्गलकलशः' एका रम्या कथाऽस्ति, या प्राणिनः सत्कर्मणि प्रवर्तयति । कृतानां कर्मणां फलं भोक्तव्यमेव भवति, किन्तु स्वार्थलिप्सया जनाः सत्कर्माणि परित्यजन्ति, परपीडने प्रवञ्चने वा रमन्ते । अन्या अपि रचना मानवीयान् गुणान् || संवर्धयन्ति । जयतु संस्कृतं संस्कृतिश्च । विनीतः रूपनारायणपाण्डेयः एस्-II /३३०, राज्यशिक्षासंस्थानकालोनी, एलन गञ्जः, प्रयागः (उ.प्र.) २११००२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy