________________
वाचकाठमां प्रतिभावः
अयि नन्दनवनकल्पतरुसम्पादिके कीर्तित्रयि !
जयतु भारती ! भवत्या प्रेषिता नन्दनवनकल्पतरोस्त्रयोदशी शाखा मयाऽधिगता । अत्र मम शोधपत्रम् 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' प्रकाशितम्, तदर्थमाभारं मन्ये । अत्र प्रकाशिताः सर्वा रचना रम्या मनोहराश्चित्ताकर्षणयुक्ताश्च सन्ति । आचार्यविजयहेमचन्द्रसूरिकृतमष्टकद्वयमस्ति मनोहरम् । आचार्यविजयपद्मसूरिकृता तत्त्वामृतभावना भव्या । पाण्डेयश्रीताराशङ्करशर्मकृतं दिव्यभारतीगानं चित्ताकर्षकम् । अभिराजराजेन्द्रमिश्ररचितं गलज्जलिकाद्वयं रम्यम् । आभाणकजगन्नाथो मनुष्यजीवनं दर्शयति । श्रीहरिभद्रसूरिणा सन्दृब्धः प्राकृतगाथानिबद्धो योगशतकग्रन्थो मुनिरत्नकीर्तिविजयेन संस्कृतेऽनूदितो भव्यो रम्यश्च । अस्यैव मुनिरत्नकीर्तिविजयस्य चिन्तनधारा जनकल्याणकारिणी वर्तते । पण्डितव्रजलालोपाध्यायस्य दान-प्रदान-सम्प्रदानानि शुभङ्कराणि सन्ति । द्विवेदिमहेश्वररमानाथस्य तस्मै श्रीगुरवे नमो नाम लेखः सुन्दरः । मुनिधर्मकीर्तिविजयस्य पत्रं कथात्रयञ्च मनोहरम् । मुनिकल्याणकीर्तिविजयेन श्रीदेवचन्द्रसूरिकृतस्य प्राकृतस्य 'सिरिसन्तिनाहचरिय'स्याऽऽधारेण सङ्कलिता मङ्गलकलशनामिका कथा जनजीवनं प्रकाशयति । मर्मनर्मविभागे सम्पादिकया कृता जनसंवादा अपि हृदयाकर्षकाः सन्ति । प्राकृतविभागेऽन्ते मुनिकल्याणकीर्तिविजयेनैकाऽपरा प्राकृतकथा सङ्कलिता ।
सम्पादिकाया प्रास्ताविके 'किं किं न घटतेऽद्य ?' हैदराबादनगरे सूनागृहस्य स्थापनायै सततं क्रियमाणं प्रयासं प्रति पशूनां निघृणहत्यायै चिन्ता प्रकटिता, यया जीवेषु प्रेम रक्षितं भवति । एषा नन्दनवनकल्पतरुपत्रिका संस्कृतेन सह प्राकृतमपि पुष्णाति रक्षति च । अस्याः प्रकाशनं सततं स्यादिति कामये ।
भवदीयः दिनाङ्का : २१-११-२००४
डॉ. रामकिशोर मिश्रः कार्तिकशुक्लैकादशी,
२९५/१४, पट्टीरामपुरम् विक्रमसंवत् - २०६१
खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org