________________
AC तदा तेषां लक्ष्यमाशयश्चाऽहिंसाया निरूपणेऽस्तीति प्रतीतिरितोऽपि स्पष्टाऽभविष्यत् I AM are आशयमिमं साधयितुं च द्वितीयसर्ग एवोपयुक्ततरो न तु प्रथम सर्गः । अत एव च तैद्वितीयसर्ग एव विवरणार्थमादृत इति सम्भावना सुशकैव ।
ईदृशं महाकाव्यं व्याचिख्यासोः कीदृशी कियती च सज्जता योग्यता चाऽऽवश्यकी । ak तथा बहुश्रुतत्वं नाम किमित्यादि सर्वमेतस्याष्टीकाया अवलोकनेन विज्ञायते । प्रत्येक
शब्दानां व्युत्पत्तिः, प्रयोगसाधनिका, लिङ्गनिर्णयः, शब्दकोषसमर्थनं तद्द्वारा चाऽर्थनिश्चयः, विविधमत-दर्शनानां तद्ग्रन्थसन्दर्भ-ग्रन्थकाराणां च परिज्ञानम् - इत्यादीनामनेकेषां विषयाणामवबोधष्टीकारचनायाऽऽवश्यकोऽस्ति । एतच्चैतस्या अपूर्णाया अपि विवृतेः पठनेन विज्ञायत एव ।
आचार्यभगवद्भिरत्र प्रत्येकं शब्दानां व्युत्पत्तिः सिद्धहेम-पाणिनीयेति-व्याकरणद्वयानुसारेण सूत्र-भाष्य-वात्तिक-धातुपाठ-उणादिसूत्रप्रमुखाणां स्पष्टनिर्देशैः प्रदर्शिताऽस्ति । - मल्लिनाथादिभिरन्यैष्टीकाकारैर्हि केषाञ्चिदेव चितशब्दानां व्युत्पत्तिर्व्याकरणादीनां स्पष्टनिर्देशै रहितैव प्रदर्शिताऽस्ति । अत्र तु प्रत्येकं शब्दानां साङ्गोपाङ्गा व्युत्पत्तिः ससन्दर्भ निर्दिष्टाऽस्त्याचार्यैः । एषैवाऽस्याष्टीकाया विलक्षणा मौलिकताऽस्ति । समासस्थलेष्वपि व्याकरणद्वयसम्मतान् सर्वानपि समासान् विग्रहांश्च प्रदर्श्य यथानुरूपमर्थस्तैः सन्दर्शितोऽस्ति ।
कोषसन्दर्भा अपि प्रतिपदं प्रदत्ताः सन्त्याचार्यपादैः । अभिधानचिन्तामणि(हैमकोष)-हैमशेषानेकार्थसंग्रहामरकोष-वैजयन्ती-मङ्ख-शाश्वतकोष-विश्वलोचनकोषयादवकोषे-त्यादीनां बहूनां कोषाणां निर्देशैः सह प्रत्येकं शब्दानां सर्वानर्थान् प्रदर्श्य प्रस्तुतस्थले कतमोऽर्थोऽत्रोपयुक्तस्तन्निर्धारणमपि ते समुल्लिखन्ति । प्रतिशब्दमियन्तः कोषसन्दर्भा अर्थनिर्देशाश्चाऽन्यत्र नैव दृश्यन्ते प्रायशः ।
___अपि च, कोषसन्दर्भः सह गीता-सांख्यकारिका-स्मृति-सङ्गीतशास्त्रादि-विविध-NE शास्त्राणामपि सन्दर्भानुद्धृत्य तदाधारेणाऽप्यर्थवर्णनमर्थनिश्चयाश्च कृतास्तैः ।।
तार्किका उन्मेषा अपि टीकायामस्यामवलोक्यन्ते । सप्तदशे श्लोके 'सः इति - १. द्वितीयश्लोकटीकायां 'धर्मपत्नी' शब्द-समासचर्चा द्रष्टव्या । २. दृश्यतां प्रथमश्लोके अथशब्दस्याऽर्थचर्चा ॥ ३. अष्टमे श्लोके सत्त्वशब्दस्य चर्चा तस्मिंश्च तकारद्वयं कदा प्रयुज्यते इति चर्चा चाऽपि द्रष्टव्या । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org