________________
, प्रथमपदेन कः परामृश्यन्ते-इति निर्णेतुमाचार्यैस्तत्राऽऽरम्भ एव मार्मिकी तर्कचर्चा विधाय AR
सः इतिपदेन दिलीपस्य परामर्शः कर्तव्य इति साधितम् । एवं द्वादशे श्लोके कीचकपदं विवृण्वद्भिरेकोनत्रिंशत्तमे च पद्ये गोशब्दस्य प्रवृत्तिनिमित्तं चर्चयद्भिस्तैः संक्षिप्ताऽपि १. रसप्रदा तार्किकी चर्चा विहिताऽस्ति । .
तथैवैकोनत्रिंशत्तमे श्लोके धातुमधिकृत्य ससन्दर्भ चर्चा कुर्वद्भिस्तैर्धातुविशेषगोचरा EVM आधुनिकविज्ञानप्रसिद्धा नियमा अपि प्रदर्शिताः सन्ति । एतत्तु तेषां समकालीन। ज्ञानप्रवाहविषयिणीं व्यापकावगाहनशक्तिं सर्वतोग्राहिणी मतिमत्तां च सूचयति ।
विवक्षितग्रन्थं विवरीषवोऽवश्यं तद्ग्रन्थस्य पूर्वतनविवरणकृतां व्याख्या आलम्बन्ते प्रायशः । इहाऽपि सूरीश्वरैः मल्लिनाथसदृशां विद्वत्सम्मतानां विश्रुतानां च पूर्वसूरीणां विवरणानि सुतरामवलम्ब्य स्वीयव्याख्या विरचिता स्यादेव । तथाऽपि कुत्रचित् ते मल्लिनाथस्याऽपि शब्दानां रुचिरं रहस्योद्घाटनमपि कृत्वा स्वप्रतिभाचमत्कारान् दर्शयन्ति । यथैकोनविंशे श्लोके उपोषिताभ्यामिति पदं 'दृष्टरुपवासं' सूचयति, तत्राऽऽचार्यैरुपमया (NT मल्लिनाथस्य वाक्यमेकमुद्धृतमस्ति- "यथा उपोषितोऽतितृष्णया जलमधिकं पिबति ।" तस्य मर्मोद्घाटनमाचायैरेवं कृतमस्ति - "अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथ: C चतुर्विधाहारत्यागरूप एव वास्तव उपवासो न तु फलाहाररूप - इति ज्ञापयति ।" तथैवोपवासविषयिकी समग्रा चर्चाऽपि तार्किकी मर्मग्राहिणी चाऽस्ति । एवं त्रयोविंशे श्लोके निपीड्यपदस्याऽर्थः संवाह्य इति अकृत्वा 'अभिवन्द्य' इति मल्लिनाथेन कृतोऽस्ति - इति सूक्ष्ममर्म गृहीत्वाऽऽचार्या उल्लिखन्ति यत् - "अत्र स्त्रीपादसंवाहनमयुक्तं ANTA पुरुषस्येत्यभिसन्धाय अभिवन्द्येति (विवृतवान्) मल्लिनाथ इत्यनुमीयते ।"
अस्याष्टीकाया समवलोकनेन एतद्विवृत्तिकृतां जैनत्वं सुतरां ज्ञायते, तथा तेषां ली मुख्य आशयोऽत्र रघुवंशसदृशमहाकाव्यस्याऽऽलम्बनेन अहिंसादिपदार्थानां जैनतत्त्वदृष्ट्या प्रतिपादनेऽस्तीत्यपि स्पष्टतयाऽवगम्यते । निजाशये तैः कियत् साफल्यं प्राप्तं तत् पश्यामः । षोडशे श्लोके अतिथिः क्रिया चेति पदद्वयस्याऽर्थं व्युत्पत्तिं च कोष-व्याकरणादीननुसृत्य 6 कुर्वाणास्ते जैनपरिभाषयाऽपि अतिथिपदं कस्मिन्नर्थे प्रयुज्यते ? तथा देवतातिथि
पित्रादीनधिकृत्य कतमा क्रिया क्रियते ? इत्यादि प्रतिपादनं कृत्वा 'संसारत्यागी मुनिरेव 1 अतिथिः स्तवन-भक्ति-सत्कारादयश्च क्रिया' इति निरूपयन्ति । तस्यैव श्लोकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org