________________
श्रद्धेव साक्षाद् विधिनोपपन्ना इति चतुर्थं चरणं ते ज्ञानक्रियाभ्यां मोक्षः इति AM का जैनसम्मतसूत्रेण सह सुयोग्यतया संवादयन्ति । ततः प्रासङ्गिकी तर्कपूर्णां चर्चा कृत्वा र SM जैनशास्त्रेषु यत्र ज्ञान-क्रिययोः खण्डनं दृश्यते तत् परस्परं निरपेक्षे ज्ञान-क्रिये आश्रित्य । । कृतमतस्तत् 'अर्थवाद'मात्रमिति रुचिरं तर्कसङ्गतं च समाधानमपि ते कुर्वन्ति ।
द्वाविंशे श्लोके भक्तिपदस्य व्याख्यां कुर्वन्तस्ते नैकसंस्कृत-प्राकृतजैनग्रन्थानांसन्दर्भपूर्वकं जैनसम्मतं भक्तिपदार्थं निरूपयन्ति । ततो भक्तेः प्रकारान् प्रदर्श्य दिगम्बरैः । सह भिन्नमतत्वादेश्चर्चार्थं सम्मतितर्कस्याऽतिदेशं कुर्वन्ति । तत्रैव प्रसङ्गेन सम्यग्दृष्टिभिः । 7 परिगृहीतानि मिथ्यादृष्टीनां शास्त्राणि सम्यग्ज्ञानत्वेन परिणमन्ति इति प्रतिपाद्य तत्समर्थनार्थं ) भगवद्गीतावचनं निर्दिश्य योगवासिष्ठगतां श्रीरामस्योक्तिमपि ते निर्दिशन्ति । ततश्च गीतायाः सन्दर्भान् मल्लिनाथकृतां व्याख्यां चाऽपि निर्दिशन्ति आचार्याः । यद्यपि भक्तिविषयकोऽयं . प्रपञ्चः सुरम्यस्तथाऽपि वाचकानामप्रासङ्गिकः स्यादिति सम्भाव्येत खलु ।
त्रयोविंशे श्लोके गुरुशब्दस्य विवृतौ ते स्मृति-पुराणादीनां सन्दर्भपूर्वकं तं व्याख्याय HD जैनमतेऽपि हरिभद्रसूरि-हेमचन्द्राचार्यादिनैकजैनग्रन्थकाराणां ग्रन्थसन्दर्भान् निर्दिश्य गुरुa) पदं व्याख्यानयन्ति । तत्रैव प्रसङ्गे मध्यकालीनगूर्जरकवेः अखा इत्यस्य काव्यमपि निर्दिष्टम् ।
। एवं व्रतस्वरूपं, "गङ्गाप्रपातकुण्डवर्णनं, षोडशविद्यादेवीनामानि", "मनःस्वरूपं, । सेतरमतमीमांसं “शब्दस्वरूपं, 'साधुवर्णनं, १०अष्टधायोगदृष्टीनां वर्णनमित्यादयो बहवः क्षा पदार्थास्तैजैनदर्शनानुसारमालिखिताश्चर्चिताश्च । एतत् सर्वं पठितृणां जैनदृष्ट्या तत्त्वावबोधार्थं Cre SNA भृशमुपयोगि । M अथैकोनत्रिंशे श्लोके गवां विविधप्रकारा नामानि तद्व्याख्याश्चाऽपूर्वतया वर्णितास्तथैव । NK गोशब्दस्याऽपि नैकेऽर्थाः सोदाहरणा निर्दिष्टा आचार्यैः । एवं धातूनामपि बढ्यो जातयः EVM सव्याख्यास्तत्र निर्दिष्टाः सन्ति । .
त्रिंशत्तमे श्लोके हिंसाहिंसयोः स्वरूपं वर्णितम् । तत्राऽऽचार्या-जैनमते तयोर्यादृशं AIN ४. दृश्यतां २५तमश्लोकटीका । ५. २६तमश्लोकटीकायाम् । ६. तत्रैव । ७. २७तमश्लोकटीकायाम्। ८. २८तमश्लोकटीकायाम् । ९. तत्रैव । (अत्रैव सन्दर्भे पण्डितराजजगन्नाथस्याऽपि श्लोकद्वयं निर्दिष्टम् ।) १०. तत्रैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org