SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Aसूक्ष्म स्वरूपं वणितं तादृशमन्यत्र नैव प्राप्यते-इति प्रतिपाद्य बौद्धदर्शन-मनुस्मृत्यादीनां AR सन्दर्भान् पदार्थप्ररूपणानि च निर्दिशन्ति, तथा हिंसायां धर्मत्वं प्रतिपादयतोः श्रुतिस्मृत्योरप्रमाणत्वं साधयन्ति । ततो महाभारत-भागवत-शिवपुराणादीनामुक्तीनिर्दिश्य अहिंसैव । धर्मः सैव चाऽऽचरणीयेति दृढतया प्रतिष्ठाप्य हिंसाया निरासं कुर्वन्ति । ततश्चाऽस्मिन् विषये स्वीयव्यापकबोधस्य प्रमाणं प्रदर्शयन्त इव ते जरथोस्तपारसीधर्मग्रन्थानामहिंसाप्रतिपादकानि वचनानि तदर्थघटनां च निर्दिशन्ति, तथैव लोटीयावोरा-महम्मदीय(इस्ला)प्रभृतिधर्माणां ग्रन्थेभ्यः (कुरानादिभ्यः) वचनानि निर्दिश्य तद्भावार्थं बोधयन्ति । प्रान्ते च ख्रिस्तधर्मग्रन्थ(बाइबल)प्रमुखाणां सन्दर्भानुल्लिख्य तदर्थवर्णनपूर्वकं - हिंसा सर्वथा त्याज्यैव, मूलधर्मस्तु अहिंसैव, स एव च सर्वथाऽऽदरणीय आचरणीयश्चेति प्रमाणीकुर्वन्ति । ___ अत्रैव टीकैषा पर्यवस्यति । यद्याचार्यैरेषा पूर्णाऽकरिष्यत तदा बहवः पदार्था - SN प्राप्स्यन्त । तथाऽपि यावत्यपि विरचिता तावत्यपि अपर्याप्ता तु नास्त्येव । प्रान्ते, विद्वज्जनानां विद्यारसिकानां जिज्ञासाया रसस्य च पोषकं तत्त्वं प्रचुरतयाऽत्र A र विवृतौ लभ्यते । अतस्ते एतद्विषयमधिकृत्याऽभ्यासलेखान् लिखन्त्विति विज्ञप्तिः । Readhes १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy