________________
आचार्यश्रीविजयनेमिसूरिविरचिता
रघुवंशद्वितीयसर्गटीका ॥
___ सं. मुनिधर्मकीर्तिविजयः
ना
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥
अथेति । अथ - कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे
___ "मुनीनां दशसाहस्यमन्नदानादिपोषतः(षणात्) ।
अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥१॥"
प्रकर्षेण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीप्तौ' इति धातोः - 'आरम्भे' (सि. ५।१।१०।।) इति 'क्त' प्रत्यये सिद्धम् । 'पाणिनि'मते तु 'भा-दीप्तौ'
धातोः 'आदिकर्मणि (१) कर्तरि च' (३।४।७१।।) इति सूत्रेण 'क्त' प्रत्यये प्रभातम् । * "प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू(त्यु)षसी उषः, काल्यम् ॥ इति र
र हैम: । तस्मिन् प्रभाते-प्रात:काले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त र * इति, प्रजाता इति वा प्रजाः । प्रपूर्वात् 'जनैचि-प्रादुर्भावे' इति धातोः 'क्वचित्' (५।१।१७१।।) ' इति 'हैम'सूत्रेण 'ड' प्रत्यये 'डित्यन्त्यस्वरादेः' (२।१।११४।।) इति 'हैम'सूत्रेणा
ऽन्त्यस्वरादिलोपे 'आत्' सि० (२।४|१८||) इति सूत्रेण । 'ड' प्रत्यये 'टेः' (पा० ME ६४।१४३) इति सूत्रेण टिलोपे। 'अजाद्यतष्टाप्' (पा० ४।१।४॥) इति सूत्रेण टापि प्रजाः ।। ( "लोको जनः प्रजा" इति हैम: । "प्रजा स्यात्सन्ततौ जने" (इत्यमरः) । तासां ।
प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)क्१. अभिधानचिन्तामणिकोशे द्वितीयकाण्डे-१३८-१३९ ।
२. अभिधानचिन्तामणिकोशे तृतीयकाण्डे-५०१ । | ३. अमरकोशे तृतीयकाण्डे नानार्थवर्ग-३८ ।
MASYA
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org