SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - रक्षणे' इति धातोः 'उपसर्गादातो डोऽश्यः' [सि०] (५।१।५६।।) इति सूत्रेण 'ड' प्रत्यये । - "डित्यन्त्यस्वरादेः' [सि०] (२।१।११४॥) इत्यन्त्यस्वरादिलोपे अधिपः । पाणिनिमते तु 'पा-रक्षणे' धातोः 'आतश्चोपसर्गे' (३।१।१३६॥) इति सूत्रेण 'क' प्रत्यये 'आतो लोप इटिका च' (६।४।६[४]।) इति सूत्रेणाऽऽकारलोपेऽधिपः । अधिप ईश्वरः । “अधिपस्त्वीशो, न HP नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः, प्रभुभर्तेश्वरो विभुः, ईशितेनो नायकश्च" इति र हैम: । जायतेऽस्यां वेति जाया । प्रतिग्राह्येते स्मेति प्रतिग्राहिते । माला एव माल्यम्, सो अथवा मालायै हितं माल्यम् । गन्धश्च माल्यं च गन्धमाल्ये । जायया-सुदक्षिणया । प्रतिग्राहिते-स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां जायाप्रतिग्राहितगन्धमाल्याम् । तथोक्ताम् ।। 'सिद्ध द्ध)हेम'मते 'गत्यर्थाऽकर्मक-पिबभुजेः (५।१।११॥) इति सूत्रेण सूत्रोक्तधात्वतिरिक्तधातुभ्यः कर्तरि क्तप्रत्ययस्य विधानाभावात् न तु कर्तरि क्तः । अत एवम भाष्यकारः "पीता गावो भुक्ता ब्राह्मणा इत्यादावकारो मत्वर्थीयः" इत्युक्तवान् । भावे - र 'क्त' प्रत्यये पीतं पानं तदस्याऽस्तीति पीतः पीतवानित्यर्थः । 'अभ्रादिभ्यः' (७२।४६) इति श्री सिव्हेश०' सूत्रेण 'अ' प्रत्ययः । 'अर्शादि (आदि)भ्योऽच्' (५।३।१२७॥) म इति 'पा०' सूत्रेण 'अच्' प्रत्ययः । अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य व इति 'वार्तिककार मते उत्तरपदस्य पयसो लोपोऽत्र द्रष्टव्यः । अत्र संज्ञायामेव पूर्वोत्तरपदयोर्लोपक इति वार्तिककाराशयः । तत्संवादिसंज्ञायामेव पूर्वोत्तरपदलोपविधायि सिद्धहेमशब्दानुशासनस्थं 'ते लुग्वा' (३।२।१०८||) इति सूत्रम् । इममेवाऽऽशयं बुद्ध्वा कैयटो लोपशब्दार्थमाह 'गम्यार्थप्रयोग एव लोपोऽभिमतः ।' पयसो यत्पीतत्वं तद् गोष्वारोप्यते । एतन्मते पीतं भी पयो येन स पीतः । प्रतिबद्धयते स्मेति प्रतिबद्धः । पीतश्चासौ प्रतिबद्धश्च पीतप्रतिबद्धः, को र अर्थात् पूर्वं पीतः पश्चात् प्रतिबद्धः पीतप्रतिबद्धः । पीतप्रतिबद्धो वत्सो यस्याः सा न पीतप्रतिबद्धवत्सा, तां पीतप्रतिबद्धवत्साम् । 'सिद्धहेश 'मते 'ऋषैत्-गतो, 'पाणिनीय'मते च 'ऋषी गता'विति धातोः । ऋषतीति ऋषिः । ऋषिः ‘मन्त्रद्रष्टरि मुनौ वेदे अनुष्ठेयज्ञापकसूत्रकृदाचार्ये गोत्रप्रवरप्रवर्तके १. अभि० चि० तृ० ३५८-३५९ । M १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy