________________
र मुनौ च' वर्तते । तस्य ऋषेः । श्रीसि०हे० ' मते 'ट्धे-पाने' 'पाणि०' मते च 'धेट
पाने' इति धातोः धयति तामिति धेनुः । यद्वाऽन्तर्भावितण्यर्थत्वे धयति सुतानिति धेनुरित्यपि व
संभवति । धेनुः नवप्रसूतायां गवि । तां धेनुम् । वनाय गन्तुं 'गम्यस्याऽऽप्ये' (२।२।६२॥) और मी इति 'श्रीसि०हे० ' सूत्रेण 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' [२।३।१४।।] इति च । * 'पाणि 'सूत्रेण चतुर्थी । मुमोच-मुक्तवान् । अत्र जायापदसामर्थ्यात्सुदक्षिणायाः P पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि
"पतिर्जायां प्रविशति, गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा, दशमे मासि जायते ।।
तज्जाया जाया भवति, यदस्यां जायते पुनः ॥" इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद् राजानहें गोरक्षणे प्रवृत्त इति गम्यते ।
अस्मिन् सर्गे वृत्तमुपजातिः । “अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" , इति तल्लक्षणम् ।
वाच्यपरिवर्तनं त्वेवम्___ अथ प्रभाते यशोधनेन प्रजानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिबद्धवत्सा ऋषेर्धेनुर्वनाय मुमुचे ।
प्रभातसमये नृपमहिषी सुदक्षिणा मालाचन्दनादिभिर्नन्दिनीं सम्यक्तयाऽर्चयामास । वत्सं च प्रथमं स्तन्यं पाययित्वा पश्चाद् बबन्ध । ततो यशःपरायणः स दिलीपो वने र * स्वच्छन्दगमनाय तां नन्दिनीं मुक्तवान्, इति सरलार्थः ।
अथ सर्गारम्भेऽथशब्दप्रयोगपूर्वकसर्गप्रारम्भयित्रा ग्रन्थकारेण 'ओंकाराथकारौ' इत्यादिशुक्लयजुर्वेदप्रातिशाख्यीयकाः(क)१७सूत्रस्य 'भाष्यकारोवट्टाचार्येणाऽर्थोऽकारि यत्, मङ्गलार्थावेतावित्यर्थकरणादपि सर्गप्रारम्भे अथशब्देन मङ्गलपूर्विका गौरव , द्वितीयसर्गस्य प्रवृत्तिरिति दर्शितम् । “मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथोऽथ" इति (अमरः)
कोशवाक्यादनन्तरार्थोऽप्यथशब्दः तेन निशानयनानन्तरमित्यप्यावेदितम् । एवमेवा"ऽथाऽतो ब्रह्मजिज्ञासा" इत्युत्तरमीमांसाग्रन्थेऽनन्तरार्थोऽथशब्दः । आरम्भार्थस्तु "अथ योगानुशासनम्" । इत्यत्र पातञ्जलयोगदर्शनशास्त्रे । प्रश्नार्थ-कात्ार्थयोस्तु प्रसिद्ध एव । अत्र तु । १. अम० तृ० नानार्थवर्ग-२५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org