SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 'प्रपत्यते यस्मात् तटात् स भृगुः इत्यके' इति तद्वृत्तौ । यद्वा प्रपतनं प्रपातः, भावे घजि प्रपात:-छलादाक्रमणमित्यर्थः । "प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः" इति हैम: । "प्रपातः पुंलि० तटरहिते निरवलम्बे पर्वतस्थाने, निर्झरे, कूले, अवस्कन्दे च, को ॐ भावे घजि पतने" । अत्र त्वधिकरणव्युत्पत्या पतनप्रदेशः । गङ्गायाः प्रपातः गङ्गाप्रपातः ।। * जैनमते चुल्लहिमवत्पर्वताधोवर्ती गङ्गाप्रपातनामा कुण्डविशेषोऽप्यस्ति । अमतीति 'अम् गतौ' धातोः 'दम्यति-तमि-वा-पू-धू-ग-ज-हसि-वस्यसि-वितसि-मसीण्भ्यस्तः' ॥२०॥ 1 इति 'उणादिश्रीसि०' सूत्रेण तप्रत्यये, 'पाणि०'मते तन्प्रत्यये च अन्तः-अवसानं, धर्मः समीपं च । “अथाऽन्तिमं जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे" इति हैम: । यद्वा ] - अमति सन्देहाभावमिति अन्तः-निर्णयः । “निर्णयो निश्चयोऽन्तः" इति हैम: । अमत्यनेन । वाऽन्तः-सीमा। "आघाटस्तु घटोऽवधिः, अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैम: । “अन्तः नपुं० स्वरूपे, स्वभावे च, शेषे पुनपुं०, नाशे, प्रान्ते, सीमायां, और निश्चये, अवयवे च पुं०, निकटे मनोहरे च त्रिलिङ्गः" । अत्र तु सामीप्ये । गङ्गाप्रपातान्तः । म विशेषेण रोहन्ति, रोहन्ति स्मेति वा; विउपसर्गात् 'रुह-प्ररोहणे' धातोः कर्तरि क्ते विरूढानि। S विरूढशब्दः त्रिलि० जाते अङ्कुरिते च" । शीयत इति 'शदि-बाधि-खनि-हनेः(ने) षः च' ॥२९९।। इति 'उणादिश्रीसि०' सूत्रेण 'शद्लं-शातने' धातोः 'प'प्रत्यये षान्तादेशे में च शष्पं-बालतृणम् । यद्वा शषतीति 'शष्-हिंसायां' धातोः 'प'प्रत्यये, 'पाणि० मते च और 'पक् प्रत्यये शष्पम् । “शष्पं तु तदनेवं (तद् नवम्)" इति हैम:६ । 'तत् तृणं नवोद्भिन्नं बालम्' इति तद्वत्तिः । "शष्पं बालतृण(णं) घासः" इत्यमरः । "शष्पं नपुं० बालतृणघासे; प्रतिभाक्षये पुं०" । गङ्गाप्रपातान्ते जाह्नवीपतनप्रदेशसमीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्य तदिति गङ्गाप्रपातान्तविरूढशष्यम् । गौरत्वात् गौरशब्दात् 'गौरादिभ्यो मुख्यान् ङीः' ।२।४।१९॥ इति 'श्रीसि०'- सूत्रेण ङीप्रत्यये, 'पा०'मते च ङीप्प्रत्यये गौरी-पार्वती । “गौरी काली पार्वती मातृमाताऽर्पणा१. अभि० चि० च० १०३२ । २. अभि० चि० तृ० ८०० । * ३. अभि० चि० ष० १४५९ । ४. अभि० चि० ष० १३७४ । ५. अभि० चि० तृ० ९६२ । ६. अभि० चि० त० ११९१ । ७. अम० द्वि० वनौषधिवर्गे -१६७ । Jain Education International ७४ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy