________________
E "भावहावहेलास्त्रयोऽङ्गजाः" इति हैमः । भवत्यस्मिन्निति वा भावः-अभिप्रायः पुंक्लीब
लिङ्गः । "छन्दोऽभिप्राय आकूतं मतभावाशया अपि" इति हैम: । "भावोऽभिप्राय HP आशयः" इति च यादवः । 'पाणि'मते तु भावः पुंलिङ्गः । भावयति चिन्तयति र र पदार्थान्, चुरादिभूधातोरचि, भौवादिकात् णो वा । नाट्योक्तौ-नानापदार्थचिन्तके पण्डिते ।
भावयति ज्ञापयति हृदयगतम्, भू-णिच्-अच् । हृदयगतावस्थावेदके, मानसविकारे, स्वेदकम्पादौ, व्यभिचारिभावे । भू-भावे घञ्, शुद्धधात्वर्थे-यथा पाक इत्यत्र विक्लित्त्यनुकूलव्यापारः पच्धात्वर्थः, एवमेव विक्लित्त्यनुकूलव्यापारो घबर्थः । “साध्यरूपे सिद्धरूपे
वा, क्रियारूपे, धातोरर्थे, रागे, आशये, प्रकृतिजन्यबोधे, प्रकारीभूते, भावे च"। अत्र तु | रागार्थ आशयार्थो वा । तं भावम्-अभिप्रायं दृढभक्तित्वम् । ज्ञातुमिच्छति इति 'तुमर्हादिच्छायांकन
सन्नतत्सनः' (३।४।२१।।) इति 'श्रीसि०'सूत्रेण ज्ञाधातोः इच्छार्थे सन्, ततः 'शत्रानशावेष्यति
तु सस्यौ' (५।२।२०॥) इति 'श्रीसि०' सूत्रेणाऽऽनशि 'अतो म आने' (४।४।११४॥) इति को | 'श्रीसि०' सूत्रेण मकारागमे आपि च जिज्ञासमाना। 'पाणि०' मते च 'धातोः कर्मणि(णः)
समानकर्तृकादिच्छायां वा' [३।१७।] इति सूत्रेण सन्, 'ज्ञा-श्रृ-स्मृ-दृशां सनः' [१।३।५७||] 14 इति सूत्रेणाऽऽत्मनेपदम्, 'लटः शतृशानचावप्रथमासमानाधिकरणे' [३।२।१२४॥] इति । सूत्रेण शानचि, 'आने मुक् च (मुक्) [७।२।८२॥] इति सूत्रेण मुगागमे टापि च । जिज्ञासमाना-ज्ञातुमिच्छन्ती (सती) । - गच्छति समुद्रमिति 'गम्लं-गतौ' इति धातोः 'गम्यमि-रम्यजि-गद्यदि-छो-गडिखडि-गृ-भृ-वृ-स्वृभ्यो गः' ॥९२॥ इति 'उणादिश्रीसि०' सूत्रेण गप्रत्यये 'पाणि०'मते में
च गन्प्रत्यये गङ्गा-देवनदी स्त्री० । "गङ्गा स्वनामख्याते, नदीभेदे" । "गङ्गा त्रिपथगा और र भागीरथी त्रिदशदीर्घिका त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी
सिद्धस्वःस्वर्गिखापगा ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा" इति हैम: । प्रपतन्ति र ' अस्मिन्निति 'पत्रों-पतने' धातोः 'व्यञ्जनाद(द् घञ्)' (५।३।१३२।।) इति 'श्रीसि०'
सूत्रेण पुंनाम्नि करणाधारे घजि प्रपातः । प्रपतन्त्यस्मादिति वा 'भावाकत्रोर्घञ् (कोंः) (५।३।१८।।) इति 'श्रीसि०'सूत्रेण घजि प्रपातः । "प्रपातस्त्वतटो भृगुः" इति हैम: । र
१. अभि० चि० तृ० ५०९ । २. अभि० चि० १० १३८३ । * ३. अभि० चि० च० १०८१-८२ ।
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org