________________
|
धातोः 'म'प्रत्यये, 'पाणिनि' मते च मनिप्रत्यये होमः-आहुतिः । "स्याद् देवयज्ञ आहुतिः होमो होत्रं वषट्कारः" इति हैम: । हूयतेऽस्मिन्निति होमः इत्यधिकरणेऽपि पु० । “देवतोद्देशेन । वह्नौ, मन्त्रद्वारा घृतादित्यागरूपे हवने; जैनेतरमते तु नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु का मध्ये देवयज्ञे, श्राद्धीयविप्रपाणी, श्रद्धी(श्राद्धीय?)यागभागस्य मन्त्रेण दाने च" । होमाय. होमस्य वा धेनुः होमधेनुः । मुनेः होमधेनुः मुनिहोमधेनुः । मुनेः होमार्थं घृतपयोदध्यादिसाधन(नं) नन्दिनी, इदमपि जैनेतरमते एव ।
अतति, सततं गच्छतीति 'अत्-सातत्यगमने' धातोः 'सात्मन्नात्मन्-वेमन्-रोमन । -क्लोमन्-ललामन्-नामन्-पाप्मन्-पक्ष्मन्-यक्ष्मन्निति' ॥९१६|| इति 'उणादिश्रीसि०'सूत्रेण में
मन्प्रत्ययान्तः, 'पाणिनि'मते च मनिण्प्रत्ययान्तो निपातः, अतेर्दीर्घश्चेत्यात्मा जीवः । "क्षेत्रज्ञान र आत्मा पुरुषश्चेतनः" इति हैम: । अथवा अतत्यनेनेति आत्मा-स्वभावः । “स्याद्रूपं लक्षणं
भावश्चाऽऽत्मप्रकृतिरीतयः, सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्; शीलं सतत्त्वं संसिद्धिः" IN इति हैम: । "आत्मा स्वरूपे, यत्ने, देहे, मनसि, वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, जीवे, ब्रह्मणि च" ।
"आत्ममातुः स्वसुः पुत्राः, आत्मपितुः स्वसुः सुताः ।
आत्ममातुलपुत्राश्च विज्ञेया ह्यात्मबान्धवाः ॥" इत्युक्त्यनुसारेणाऽत्र आत्मा स्वीयार्थः । अनुचरतीति अनु-उपसर्गपूर्वात् 'चर्गतिभक्षणयोः' इति धातोः अच्प्रत्यये, 'पा०'मते चट्प्रत्यये अनुचरः-अनुगामी । "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैमः' । अनुचरः त्रिलि० सहचरे, पश्चाद्गामिनि दासादौ । अनुगतश्चरं दूतं गतिस० । दूतानुगे त्रि० । आत्मनोऽनुचरः । र आत्मानुचरः, तस्याऽऽत्मानुचरस्य-स्वसेवकस्य राज्ञः ।
भावयति विचारयतीति भूधातोणिचि घञि भावः । "भावो विद्वान्" इति हैम:५ । यद्वाऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावः-अङ्गस्याऽल्पो विकारः ।
O
ile
AN
१. अभि० चि० तृ० ८२१ । 2३. अभि० चि० ष० १३७६ -७७ ।
५. अभि० चि० द्वि० ३३२ ।
२. अभि० चि० ० १३६६ । ४. अभि० चि० तृ० ४९६ ।
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org