SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ "धर्म: पुंनपुंलि० शास्त्रविहितकर्मानुष्ठानजन्ये, भाविफलसाधनभूते, शुभादृष्टे' । 'यतोऽभ्युदय-' निःश्रेयससिद्धिः स धर्म:' । 'श्रुतिस्मृतिभ्यामुदितं यत् स धर्म' इत्युक्ते श्रौते, स्मार्ते कर्मणि । 'विहितक्रियया साध्यो धर्मः पुंसां गुणो मतः' इत्युक्ते, कर्मजन्ये, अदृष्टे, - आत्मनि । 'देहधारणात्' जीवे, आचारे, वस्त्रगुणरूपे, स्वभावे, उपमायां, यागादौ, अहिंसायां, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सङ्गे, धनुषि, ज्योतिषोक्ते, लग्नात् नवमस्थाने च; दानादौ नपुं० " । इह तु शुभादृष्टं धर्मो यमोपमापुण्यस्वभावाचारधन्वसुसत्सङ्गेर्हत्यहिंसादौ न्यायोपनिषदोरपि । “धर्मं दानादिके" इत्यनेकार्थसङ्ग्रहः । पातीति पाधातो: 'पातेर्वा' ॥ ६५९॥ इति 'उ० श्रीसि० ' सूत्रेण ङीप्रत्यये नान्तागमे 'च पत्नी । “अथ सधर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या • जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: । अथवा 'पाणिनीय' मते [ पत्युर्नो यज्ञसंयोगे ४|१|३३|| इति ] पतिशब्दात् यज्ञसम्बन्धे ङीपि नुकि च पत्नी, पतिकृतयज्ञवत्यां - विधिनोढायां योषिति । 'सिद्धहेममते धर्माय पत्नी, 'पाणि० 'मते च धर्मस्य पत्नी धर्मपत्नी । पार्थिवस्य धर्मपत्नी पार्थिवधर्मपत्नी, तया पार्थिवधर्मपत्न्या । प्रत्युद्गम्यते स्मेति प्रत्युद्गता । सा । धयति एनाम् धेनुः । तयोर्दम्पत्योरन्तरे तदन्तरे - मध्ये । अन्तरे इति सप्तम्यन्तप्रतिरूपकमव्ययम् । " मध्येन्तरन्तरेणान्तरेऽन्तरा" इति हैम: । अथवा 'पा० 'मते अन्तरेति 'इण्' धातोः विचि अन्तरे (रं) यद्वा अनितीत्यन्तरं पुंक्लीबलिङ्गः । 'अनि - काभ्यां तरः ' ॥४३७॥ इति 'उ० श्रीसि० ' सूत्रेण अन्धातो: . 'तर' प्रत्यये अन्तरम् | "मध्यमन्तरे" इति हैम:' । 'पाणि० 'मते तु अन्तं राति - ददातीति, राधातोः कप्रत्यये "अन्तरम् अवकाशे, अवधौ परिधानांशुके, अन्तर्धाने, भेदे, परस्परवैलक्षण्ये, विशेषे, तदर्थे, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे, व्यवधाने, मध्ये, सदृशे च ।" तयोरन्तरं तदन्तरं, तस्मिन् तदन्तरे । दीव्यति रविरत्र द्यति तम इति वा दिनम् । क्षिप्यते इति 'भिदाद्यङ् (दय:)' (५/३/१०८ ||) इति 'श्रीसि० ' सूत्रेण क्षिप्धातोरङि क्षपा । " निशा . निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी तमा विभावरी रजनी. १. अनेकार्थसङ्ग्रहे द्वि० ३२० । ३. अभि० चि० ष० १५३८ । Jain Education International २. अभि० चि० तृ० ५१२-१३ । ४. अभि० चि० ष० १४६० । ४२ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy