SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स वसतिः श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ता" इति हैमः । यद्वा 'पा०'मते । क्षपयति चेष्टामिति क्षैधातोः णिचि पुकि च क्षपा रात्रौ । दिनं च क्षपा च दिनक्षपे । 'मबन्धने' मव्यत इति 'शिक्यास्याढ्य-मध्य-विन्ध्य-धिष्ण्याघ्न्यहर्म्य-सत्य-नित्यादयः' ॥३६४॥ इति 'उणादिश्रीसि० 'सूत्रेण वस्य धेयान्ते (धत्वे) च निपातने मध्यम् । 1 "मध्यमन्तरे" [इति हैम:२] । स्वरभेदेऽपि "ते मन्द्र-मध्य-ताराः स्युरुरःकण्ठशिरोद्भवाः" * इति हैमः। दत्तिलोऽपि आहनृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥१॥ मध्यं लयविशेषः । “द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात्" इति हैम: । एक भागुरिरप्याऽऽह-"लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु ।" इति । मव्यते बध्यते मे स्वराद्यत्र मध्यः । “मध्योऽवलग्नं विलग्नं मध्यमः" इति । 0 हैम:५। 'पाणि०'मते तु मन्धातोः यकि नस्य धे च निरुक्तेः मध्यं पुं० न० । * "देहस्याऽवयवभेदे, नृत्यादौ, मन्दत्वशीघ्रत्वभिन्ने, व्यापारभेदे, पूर्वापरसीमयोरन्तराले, पराय॑सङ्ख्यातोऽर्वाचीनायां सङ्ख्यायां, न० तत्सङ्ख्याते च" । “अन्त्यं मध्यं परायं कर चे" ति लीलावती । "ज्योतिषोक्ते, ग्रहाणां गतिभेदे स्त्री०, तद्वति ग्रहे पु०, न्याय्ये, * अन्तवर्तिनि च त्रिलि०" । "मध्यं न्याय्येऽवलग्ने अन्तर्" इति अनेकार्थसंग्रहः६ । इह - त्वन्तः दिनक्षपयोर्मध्यं दिनक्षपामध्यम् । गम्यते स्मेति गता । दिनक्षपामध्यं गता * दिनक्षपामध्यगता । सन्ध्यायन्त्यस्यामिति, यद्वा सज्येते सन्धीयेत अहोरात्रावस्यामिति सञ्धातोः 'सञ्जेर्धन च' ॥३५९॥ इति 'उ० श्रीसि०' सूत्रेण यप्रत्ययो धोऽन्तादेशश्चेति सन्ध्या । “सन्ध्या तुम * पितृसूः" इति हैमः । यद्वा "पा० मते सम्पूर्वात् ध्यैधातोरङि सन्धिः । सन्धिशब्दात् । १. अभि० चि० द्वि० १४१-४२-४३ । २. अभि० चि० ष० १४६० । * ३. अभि० चि० १० १४०२ । ४. अभि० चि० द्वि० २९२ । ५. अभि० चि० तृ० ६०७ । ६. अनेकार्थसङ्ग्रहे द्वि० ३६५ । ७. अभि० चि० द्वि० १४० । R ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy