SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 'भवार्थे यति वेति' सन्ध्या । एकरूपकालोत्तर भाविपररूपकालस्याऽवकाशे, दिवारात्रस्यमध्यवर्त्तिकाले, स च दिवाशेषदण्डसहितरात्रिप्रथमदण्डात्मकः कालः । तयोश्चतुर्दण्डात्मक कालश्च । "त्रियामां रजनीं प्राहुस्त्यक्त्वाऽऽद्यन्तचतुष्टये । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते" ॥ इति स्मृतिः । 44 “ अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा च सन्ध्या समाख्याता" ॥ इति स्मृतिः । सायाह्ने सन्ध्याकाले उपास्यदेवताभेदे । तदुपासना-याञ्चा । " सन्ध्यामुपासते ये तु नियतं शंसितव्रताः ॥” इति स्मृतिः । “प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्" इति स्मृतिः । चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च प्रकीर्तितः ॥ इत्युक्ते, युगसन्धिकाले, नदीभेदे, ब्रह्मपत्नीभेदे, चिन्तायां, संश्रवे, सीमायां, सन्धाने, च । अत्र तु दिवारात्रस्य मध्यकालः सन्ध्या । इव - 'इवि - व्याप्तौ' धातोः कप्रत्यये इव अव्ययं, सादृश्ये उत्प्रेक्षायां ईषदर्थे वाक्यालङ्कारे च । इह तु उत्प्रेक्षायाम् । विरराज - शुशुभे ॥ वाच्यपरिवर्तनं त्वेवम् -वर्त्मनि पार्थिवेन पुरस्कृतया पार्थिवधर्मपत्न्या च प्रत्युद्गतया - तया धेन्वा तदन्तरे दिनक्षपामध्यगतया सन्ध्ययेव विरेजे || Jain Education International मार्गे महिषी धेनोरग्रतः पश्चात् दिलीपश्च यथा दिननिशयोः मध्ये स्थिता (किसलयरागारुणा) सन्ध्या चकास्ति तथैव तयोः सुदक्षिणादिलीपयोर्मध्येऽवस्थिता नन्दिन्यपि' . दिदीपे, इति सरलार्थः ॥२०॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवाऽर्थसिद्धेः ॥ २१ ॥ प्रदक्षिणीकृत्येति । न क्षप्यन्ते इत्यक्षता: पुंक्लीबलिङ्गः । पुंसि अयं बहुचनान्त: ४४ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy