________________
परम्परा अनुभूयते । ईदृश्यां स्थित्यां साम्प्रतकाले नवीनमार्गेण, अन्यप्रकारेण हास्यनिरूपणं का
प्रस्तुतम् आवश्यकं च भवति । अस्या: आवश्यकतायाः परिपूर्ति करोति 'हास्यमेव जयते' - FE इत्येषा पुस्तिका ।
अत्र कीर्तित्रयी (मुनिरत्नकीर्तिः, मुनिधर्मकीर्तिः, मुनिकल्याणकीर्तिश्च) हास्यकणिकानां सङ्कलनं कृतवती । अस्याः पुस्तिकायाः बहूनि वैशिष्ट्यानि सन्ति । यथा। (१) सचित्राः हास्यकणिकाः अत्र मुद्रिताः सन्ति । एतानि चित्राणि क्वचित् स्पष्टीकरणं कर
कुर्वन्ति, क्वचिच्च पुष्टिम् अपि कुर्वते । यथा-आङ्ग्लविद्यालयस्य माहात्म्यम् ! (पृ.
९७) । चित्राङ्कनार्थं श्रीनैनेशः सरैयाः प्रशंसामर्हति । (२) भाषा सरला वर्तते । अतः शीघ्रमेव रहस्यं ज्ञातुं शक्यते । सारल्येन सह सहजभाषा प्रयोगोऽप्यत्र दृश्यते । यथाउपाहारगृहस्वामी - गूर्जरराज्ये तु सुरापानं निषिद्धमस्ति । अतो न वयं तुभ्यं सुरां
दातुं शक्नुमः । तदर्थं च क्षन्तव्या वयम् । ग्राहकः - किन्तु, अत्र कपाटे तु सुरा विद्यते एव ? उपाहारगृहस्वामी - एषा तु तेषां कृते एव, ये सर्पवृश्चिकादिभिर्दष्टाः स्युः ।
ग्राहकः - एवं ? तर्हि सर्पा वृश्चिकाश्च कुत्र वर्तन्ते, तत् कथयतु । (३) सक्षेपः हास्यकणिकायाः कृते आवश्यकः । सः अत्र अतीव योग्यतया आगतः । सक्षेपेण यत्र हास्यं स्फुटीभवति, तत्र तत् नितरां प्रभावकम् भवति । यथा
- अस्मिन् विस्तारे किं कोऽपि महान् पुरुषो जातः ? - न । अत्र तु सर्वे बालका एव जायन्ते !!
कविः - इतः पूर्वं भवतैव मम केशकर्तनं कृतं खलु ? नापितः - न । अहं त्वत्र वर्षद्वयपूर्वमेवाऽऽगतोऽस्मि ।
पा (४) विविधाः हास्यप्रयुक्तयः अत्र विद्यन्ते । विभिन्नक्षेत्रेभ्यः हास्यमागतम् । इह नापितः,
१२६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org