SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वैद्यः, पतिः, पत्नी, आपणिकः, शिक्षकः, दैवज्ञः, वैज्ञानिकः, कथाकारः - पात्राणि सन्ति । अत: वैविध्यमनुभूयते । (५) पात्रनामानि अपि विवेकबुद्ध्या निश्चितानि । यथा- आशुगः मन्दगः, स्वज्ञः - सुज्ञः । (६) क्वचित् शब्दस्य अर्थग्रहणार्थम् आङ्गलभाषानुवादः कृतः । अनुवादोऽयं नितरामुपयोगी । सः शब्दस्य अर्थं प्रकटीकरोति । यथा - प्रतीक्षक : ( waiter), मुख्याधिकारी (manager), घण्टिका (Horn) इत्यादिशब्दाः । इत्यादिभिरनेकवैशिष्ट्यैः इयं पुस्तिका नूतना इव प्रतिभाति । वाराणसीतः प्रकाशिते 'गाण्डीवम्' इति नाम संस्कृतपत्रे 'छिद्रान्वेषी' कविः एकेन द्वाभ्यां वा श्लोकेन श्लोकाभ्यां वा हास्यं परिवेषितवान् । हास्यनिरूपणमिदं पद्यात्मकम् । एतच्छ्लोकानां सङ्कलनमपि सञ्जातम् । अनेन सह स्थापयितुं योग्योऽयं गद्यात्मकः हास्यकणिकासङ्ग्रहः “हास्यमेव जयते" नाम । अस्य सङ्कलनं कृतम् एतदर्थं कीर्तित्रयी धन्यवादानर्हति । प्रकाशकोऽपि साधुवादार्हः । जयतु संस्कृतम् । विजयतां हास्यम् । भिक्षुकः (रेल्स्थानके) श्रेष्ठिन् ! एकं रूप्यकं ददातु । भगवान् भवते स्वर्गे स्थानं दास्यति । श्रेष्ठी Jain Education International इत्यादीनि अरे ! अलं स्वर्गेण, केवलं रेल्यानेऽपि उपवेष्टुं स्थानं प्राप्येत तदाऽपि वरम् !! १२७ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy