________________
कथा
उपायनम्
मुनिरत्नकीर्तिविजयः कुशलेनैकेन शिल्पिना हस्तिनो दन्तशूलात् सुन्दरं कलायुतमेकं व्यजनं निर्मितम् । उत्तममिदं वस्तु-इतिकृत्वा राजास्थानं गत्वा राज्ञे तेन तदुपायनीकृतम् । राजाऽपि तद दृष्ट्वा प्रसन्नोऽभूत् । क्षणं च स तत् सर्वतो निरीक्षितवान् । पश्चात्--
__'गृहाणेदम्' - तद् वीजनं राजविदूषकाय ददन् राजा प्रोक्तवान्- 'सावधानतयेदं त्वया रक्षणीयम्'- इति । शिरोऽवनमय्य विदूषकः सविनयं तद् गृहीतवान् ।
किञ्च' पुनश्चराजाऽवोचत् - 'त्वत्तोऽप्यधिको मूर्यो यः कोऽपि भवेत् तस्मै एतदुपायनीकर्तव्यं त्वया' इति । राज्ञ एतादृशं सोपहासं वचनं श्रुत्वा सराजविदूषकाः सर्वोऽपि सभासदो हसितवन्तः ।
शनैः शनैः समयो व्यतीतः । एष घटनाऽपि विस्मृतप्राया जाता । एकदा राजा रुग्णोऽभवत् । शनैः शनैश्च व्याधिर्वृद्धिं गतः । ततश्च राजसभायां तस्याऽऽगमनमपि स्थगितमभूत् । उत्थानेऽप्यशक्तः स सर्वथा शय्यावशो जातः । बहवो जनास्तत्स्वास्थ्यं द्रष्टुं प्रष्टुं तमाश्वासयितुं चाऽऽगच्छन्ति । क्रमेण च विदूषकोऽप्येकस्मिन् दिने तत्स्वास्थ्यवार्ता प्रष्टुमागतवान् । राजाऽत्यन्तं पीडित आसीत् । राज्ञः पार्वे स क्षणं मौनेनोपविष्टः । पश्चात्'राजन् ! कथमस्ति भवान् ? स्वस्थः खलु ?' - इति मन्दस्वरैः स पृष्टवान् ।
'हा !' निःश्वस्य दीनवदनो राजाऽवदत् - 'पश्य, सर्वथाऽसहायो जातोऽस्मि । अथ दीर्घयात्रार्थं सज्जा करणीयेति प्रतीयते ।'
'दीर्घयात्रा ?' इति प्रश्नेन सह विदूषकस्याऽऽस्ये हास्यमागतम् । तदवरुध्य . ॐ सोऽपृच्छत् 'स्वामिन् ! शय्यात उत्थानेऽपि भवानसमर्थोऽस्ति । कथं नाम दीर्घयात्रां र करिष्यति ?' इति ।
C)
१२८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org