________________
-
___ 'अरे मूर्ख !' सकोपं राजाऽवदत् - 'त्वमेतावदपि न जानासि ? दीर्घयात्राशब्देना जो तु परलोकयात्रा- इति मे आशयः । ज्ञातं खलु ? तत्र तु सर्वैरपि गन्तव्यमेव खलु ? अस्त्यत्र कोऽप्यपवादः ?'
विदूषको गम्भीरां मुखमुद्रां कृत्वा प्रोवाच-'सत्यं राजन् ! सत्यं भवतश्चिन्तनम् । परमस्मिन्नवसरे भवान् तु सर्वरीत्या सज्ज एव खलु ?'
विदूषकस्य प्रश्नं श्रुत्वा राज्ञोऽक्षिणी बाष्पार्दे जाते । व्यथितः स उवाच - 'एष, एव खेदो मम । कदाचित् सर्वैरपि लोकमेनं त्यक्त्वाऽन्यत्र गन्तव्यमेव भवति - इति जानताऽपि मया तादृशं किमपि नाऽऽचरितं येन तृप्ति सार्थकतां वाऽनुभवेयम् । हा ! एवमेव गतं वयः ।'
खिन्नं राजानं विदूषकोऽसान्त्वयत् प्रणनाम च । शनैश्च हस्तिदन्तशूलेन निर्मितं तव्यजनं तत्रैव शय्यायां राज्ञः समीपे मुक्त्वा निःशब्दमेव ततो निःसृतः ।
('नवनीतसमर्पण'सामयिकत: अनूदिता ।
मू.ले.राजु दवे ॥)
यस्य नाऽस्ति विवेकस्त केवलं भो ! बहुश्रुतः । न स जानाति शास्त्रार्थान् दीं पाकरसानिव ।।
Garle
१२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org