________________
Haap कथा |
(दुःखव्यसनम् )
मुनिकल्याणकीर्तिविजयः र ग्रीस्-देशेषु सोलननामा महान् तत्त्वज्ञो निवसति स्म । स्वीयज्ञानमनुभवं चोपयुज्य र स जनेभ्यो जीवनतत्त्वं समाधिमुपशमादींश्च बोधयति स्म । र अन्यदा तत्पार्वे एको दुःखी जनः समागतः । वारं वारं सम्प्राप्तै १ःखाघातैक रत्यन्तमुद्विग्नः शोकाकुलश्च स जीवनेऽपि निराशो निरुत्साहश्च सञ्जातो लक्ष्यते स्म । र, र तस्यौदास्यं खेदं चाऽपनेतुं सोलनो बहु प्रयतितवान्, किन्तु दुःखसागरे गाढं निमग्नं तमुन्मज्जयितुं साफल्यं नैव प्रापत् ।
अतः स तमेकस्य पर्वतस्य शिखरोपरि नीतवान् । तस्मात् शिखरात् ग्रामस्थितानां - सर्वोषामपि गृहाणां छदिषो दृश्यन्ते स्म । ताः सन्दर्य सोलनस्तमकथयत्- ‘पश्य, इतो
यावन्ति गृहाणि दृश्यन्ते तानि सर्वाण्यपि दुःखभरेण संपूरितानि सन्ति; एतेषु रोगा विलसन्ति, । दारिद्यं नरीनृत्यते, मृत्युविजृम्भते, दौर्भाग्यं दैन्यं च रासकान् गृह्णतः । यद्येतेषां सर्वेषां र शोकोद्वेगखेदादय एकत्रा क्रियन्ते तदा तु दुःखदवाग्निरेव प्रज्वलितो भवेत् । एतेषां दुःखानां ये
तुलायां तव दुःखं त्वग्निकणादपि नाऽतिरिच्येत । यदि त्वं परमाणुकल्पेन नैजदुःखेन पर रोदिषि तदा सर्वेषामप्येतेषां दुःखेनाऽपि किमिति न शोचसि ? तेषां दुःखात् तव दुःखं । र भिन्नं तु नास्त्येव । तथा यदि तेषां दुःखानां शोचनं तव व्यर्थं प्रतिभाति तदा स्वदुःखोद्वेगोऽपि । ते निरर्थक एव ।'
एतच्छ्रुत्वा व्यसनव्यसनिनस्तस्य चित्ते बोधः प्रस्फुटितः । औदास्यं संत्यज्य सर प्रफुल्लितः प्रत्यग्रश्च सञ्जातः ।।
प्रसङ्गोऽयं बोधयति यद् निजदुःखकणं पर्वतयित्वा शोकव्यसनित्वं भजद्भिरस्माभिरिदं हर [ चित्ते ध्यातव्यं यद् दुःखं तु सूक्ष्मधूलिरजःसदृशमस्ति । यथा रजः सर्वेषां पादयोः - श्लिष्यत्येव, ततः कोऽप्यस्पृष्टः स्थातुमसमर्थ एव । एतद्-दुःखविषयेऽपि समानम् ।।
(मुनिश्रीभुवनचन्द्रजीकृत-गूर्जरभाषामयदृष्टान्तदर्पणात् संकलितम् ।)
*arde Kaha
१३० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org