SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ग्रन्थस्य रूपान्तरं भव्यतया ग्रन्थस्य भावमाविष्करोति । टिप्पण्यां ग्रन्थान्तरेभ्य उद्धृत्य केचिद् विषया विशदीकृताः सन्ति, किन्तु टिप्पण्य इमाः सर्वत्र न सन्ति । 2 षष्ठेऽध्याये सप्तदशं श्लोकं विहाय कोऽपि श्लोको न व्याख्यातः । हिन्दीरूपान्तरेण टिप्पण्या च साकं यदि प्रतिश्लोकं मूलस्य क्लिष्टपदानि संस्कृतेन हिन्द्या वा व्याख्यातानि की स्युः, तर्हि सामान्याः पाठका अपि ग्रन्थस्य तात्पर्यावगमे शक्ता भवेयुः । यद्यपि साम्प्रतं वास्तुशास्त्रमाधुनिकदृष्ट्याऽतितरां प्रगतं विद्यते, तथापि भारतीयवास्तुशास्त्रतत्त्वाधिगमे मनुष्यालयचन्द्रिकेति ग्रन्थस्याऽतीवोपयोगिताऽस्ति । मुद्रणदृष्ट्या प्रायशो त्रुटिरहितो भूरिपरिश्रमेण सम्पादिकया सम्पादितोऽनूदितश्च टिप्पण्यादिभिरलङ्कृतोऽयं ग्रन्थो न केवलं वास्तुशास्त्रविद्भिराराध्यः, अपितु संस्कृतज्ञैरपि संग्राह्योऽस्ति । जयतु X संस्कृतं संस्कृतिश्च । ArtF प्राध्यापकः भवती प्रत्यहं मां विस्मरणशीलतया निन्दति, किन्तु पश्य, अद्य तु भवत्येव छत्रं विस्मृत्याऽऽगता । अतोऽहं भवत्या मम चेति छत्रद्वयमपि गृहीत्वा ऽऽगतवान्। पत्नी परन्तु अद्याऽऽवां छत्रमगृहीत्वैव गत वन्तावास्ताम् !! १२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy