SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ FACCOM . R कविराजमार्गः ग्रन्थसमीक्षा 08 श्रीयल्लापुरकृष्णशर्मा - कविराजमार्गाख्यः काव्यमीमांसाग्रन्थः कश्चन विद्योतते कन्नडभाषायाम् । पुराकाले कर्णाटकेषु कन्नडवाङ्मयाभिवृद्धौ जैनविद्वत्कवीनां योगदानं महदासीत् । प्राचीन- NE कन्नडवाङ्मये जैनविद्वत्कविभिविरचितानि शास्त्रीयानि काव्यानि च बहूनि प्रथन्ते । । केशिराजस्य शब्दमणिदर्पणम्, भट्टाकळंकस्य शब्दानुशासनमिति च द्वौ कन्नडव्याकरणविषयको ग्रन्थौ स्तः । उपलब्धेषु कन्नडभाषानिबद्धग्रन्थेषु कविराजमार्ग एव प्रथम इति प्रथते । ग्रन्थस्याऽस्य रचयिता जैनविद्वान् श्रीविजयः इति अभिप्रयन्ति विमर्शकाः । राष्ट्रकूटवंशीयस्य नृपतुङ्गनाम्नो नृपतेः (क्रि० ८१५-८८०) आस्थाने आसीदयं श्रीविजय इति प्रतीयते । कविराजमार्गे सन्ति त्रयः परिच्छेदाः । (१) दोषादोषानुवर्णननिर्णयः । (२) शब्दालङ्कारवर्णननिर्णयः । (३) अर्थालङ्कारप्रकरणमिति । दण्डिनः काव्यादर्श एव कविराजमार्गस्याऽस्याऽऽदर्शः । क्वचिद् भामहस्य काव्यालङ्कारोऽपि । परन्त्वत्र श्रीविजयस्य स्वोपज्ञा अपि केचिद् विचाराः समुल्लसन्ति । कविराजमार्गे चतुस्त्रिंशदर्थालङ्कारा निरूपिताः । सन्ति । जातिमारभ्य (जातिः स्वभावोक्तिः) आशी:पर्यन्तं चतुस्त्रिंशदालङ्कारान् न्यरूपयदत्र श्रीविजयः । भाविकमधिकृत्य 'केवलमलङ्कृति' इति वदन् ग्रन्थकारस्तं काव्यशोभाकरधर्म मन्यते इति भाति । भाविकोल्लेखानन्तरं ग्रन्थसमाप्तिवचनोपन्यासात्पूर्वं ग्रन्थकारो ध्वनिमधिकृत्य किमपि प्रस्तौति संक्षेपेण । कविराजमार्गस्थोऽयं ध्वनिप्रस्तावो भारतीयकाव्यमीमांसेतिहासे - उल्लेखमर्हति । यतो हि आनन्दवर्धनस्य समकालीनोऽयं श्रीविजयः। कविराजमार्गस्य रचनाकालो माकिं क्रि० ८६०-८८० अवधिक इति विदुषां विश्वासः । ध्वन्यालोकस्य रचनाकालोऽपि प्रायः स एव स्यादिति (क्रि. ८५०-९००) तर्कयन्ति इतिहासज्ञाः । परन्तु क्व काश्मीराः क्व वा कर्णाटाः ? । ध्वन्यालोकग्रन्थप्रसारात्पूर्वमेव श्रीविजय आनन्दवर्धनोपज्ञं १२३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy