________________
A भारविः रूप्यकाणां सहस्रमेकम् ।
देवदत्तः अस्मात्किञ्चिदल्पं भवितुं शक्नोति किम् ?
भारविः नैव श्रीमन् ! KA देवदत्तः तद् गृहाण सहस्रमेव ।
भारविः प्रदेहि श्रीमन् !
देवदत्तः गणय, सहस्रमेतत् । पुस्तकं देहि । K भारविः गृहाण पुस्तकं श्रीमन् !
(विक्रेता तत्पुस्तकं क्रेत्रे प्रदाय हट्टादगच्छत् । क्रेता तं ग्रथितं श्लोकं पठित्वा पुस्तकं ह स्वशयनकक्षे नागदन्ते लम्बितवान् ।)
(ततः प्रविशतो भारविस्तस्य पत्नी च ।) भारविः प्रिये ! गृहाण सहस्रं रूप्यकाणि तस्य श्लोकस्य मूल्यम् । पत्नी अनेन रूप्यकसहस्रेण कतिपयदिनानां भोजनादिव्ययो भविता । प्रियतम !
भवान् श्लोकविरचनं सततमेव कुर्यात्, येनाऽऽवयोर्धनलाभोऽपि भवेत् । का भारविः सम्प्रत्यहं काव्यन्तु करोम्येव, यस्याऽयमेकः श्लोको भवत्या विक्रयाय प्रेषितः र
सुभगे ! A पत्नी किं काव्यं करोषि प्रियवर ! अहमपि शृणुयां भवदीयकाव्यस्य किं नाम ? र भारविः मम काव्यं, यदहमिदानी लिखन्नस्मि, तत्किरातार्जुनीयं भविता प्रियतमे ! पत्नी भाग्यस्य विडम्बना कीदृशीयम्, यया प्रेरितेन पित्रा कविरपि स्वपुत्रो गृहा- त
निष्कासितः । भारविः प्रिये ! षण्मासार्थमेव निष्कासितोऽस्मि । तावत्कालाय रूप्यकाणां सहस्रमेकं
भोजनादिव्ययाय पर्याप्तमस्ति सुभगे ! पत्नी यद्येतत्सहस्रमपर्याप्तमपि स्यात्तदपरं श्लोकं विक्रयाय प्रेषयिष्यामि प्रियतम ! भारविः काव्यं यशसे धनाय चाऽपि भवति भद्रे !
(इत्थं वार्तामालपन्तौ तौ दम्पती सुप्तौ ।)
(पटीक्षेपः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org