SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ - भू तृतीयदृश्यम् । NAME दावा Oloparda LOVE and-OSIDES IVATE जल (ततः प्रविशति पुस्तकक्रेता व्यापारी देवदत्तः ।) देवदत्तः आर्ये ! कुरु द्वारमनावृतकपाटम् । 1 श्रीमती कस्त्वम् ? - देवदत्तः अहमागतोऽस्मि प्रवासादायें ! देवदत्तोऽस्मि । निद्रां त्यक्त्वा द्वारमुद्घाटय । (रात्रौ द्वारे शब्दमकरोत् ।) 1 श्रीमती आर्यपुत्र ! एषाऽहमायामि । (द्वारमुद्धाट्य पतिं च विलोक्य प्रसीदति ।) अथ भवान् सार्धपञ्चदशवर्षेभ्यः पश्चादागतवान् प्राणेश्वर ! देवदत्तः आमेवं प्रिये ! व्यापारकर्मणि बहुकालो गतः । इदानीमहं निद्रया वशीभूतोऽस्मि। आगच्छ मया सह शयनकक्षम् । (यदानीं शयनकक्षं प्रविशति, तदानीं तत्र पर्यङ्के शयानमेकं युवानं पश्यति । तं युवानं पत्न्या जारं मत्वा क्रुद्धः कृपाणमाकृष्य यदा हन्तुमुद्यतस्तदा समक्षमेव भित्तौ नागदन्तेऽवलम्बितमेकपत्रलिखितं श्लोकं पठित्वा, तद्वधविचारं च विहाय पत्नी पृच्छति ।) प्रिये ! अयं कः ? यः पर्यङ्के ATE शेते । नीनाNAM Pos श्रीमती अयमस्ति भवदीयः पुत्र आर्यपुत्र ! देवदत्तः मदीयः पुत्रः ? । का श्रीमती आम्, आर्यपुत्र ! अयं भवदीयः पुत्रोऽस्ति । किं भवता विस्मृतम् ? यदा भवान् व्यापाराय प्रातिष्ठत, तदाऽयमासीन्मम गर्थे । साम्प्रतमयं षोडशवर्षीयोऽभवत् । भवान् सार्धपञ्चादशवर्षानन्तरमधुना गृहमायातः प्रियतम ! तत्र गत्वा तु मां भाविनं स्वपुत्रं गृहं च सर्वं कथं विस्मृतवान् ? (रोदिति ।) देवदत्तः यदि त्वामहं तत्र व्यस्मरिष्यं तदत्र कथमागमिष्यं प्रिये ? श्रीमती किं तत्र विदेशेऽपि काऽपि नारी पत्नी कृता भवता? येनैतावान् विलम्बो जातः । प्रियवर ! देवदत्तः न काऽपि पत्नी कृता प्रिये ! भारतीयो जन एकस्यां पत्न्यां जीवितायां द्वितीयं । TATE opardaodlodbad -O ALMIU Doli १३७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy