________________
इमस्मिन् कोणे स्थापय ।
पिता भारविः
अत्र स्थापितोऽयम् । का पुनराज्ञा पित: ?
पिता
गच्छ पुत्र ! सपत्नीकस्त्वं स्वश्वशुरालयम् । तत्रैव षण्मासान् वस प्रायश्चित्ताय । भारविः अस्तु पित: ! गच्छामि तत्र स्वपत्न्या सह ।
क्षम्यतामयं पुत्रः स्वामिन् ! स भवद्वधात्पूर्वमेव स्वकीयमपराधं स्वीकृतवान् । प्रिये ! अयं तव पुत्रो ममाऽप्यस्ति । परमयं स्वदूषितविचारेण दण्डनीय एवाऽस्ति । श्वशुरालयं गत्वा यदानीमयं निवत्स्यति, तदानीं तत्र विविधमानापमानानुभवेनाऽस्याऽन्तरात्मा दोषमुक्तो भविष्यति ।
माता
पिता
कियत्कालपर्यन्तमस्य प्रवास: प्राणनाथ !?
चिन्तां मा कार्षीः प्रिये ! षण्मासानन्तरमयं पुनः स्वगृहमायास्यति । तदाऽयं कविर्महापण्डितश्च भविष्यति । (पुत्रं प्रति) गच्छ पुत्र ! पत्न्या सह श्वशुरालयम् । तत्रैव षण्मासपर्यन्तं वस । अयमेव ते पितृवधविचारदण्डः । भारविः गच्छामि पितः ! पत्न्या सह तत्र प्रायश्चितं कर्तुम् । (गच्छति ।
(पटीक्षेप: )
माता
पिता
द्वितीयदृश्यम्
(ततः प्रविशति क्रेता विक्रेता च।)
क्रेता देवदत्तः अस्ति किमिदं भद्र ! विक्रेता भारविः पुस्तकमिदम् । देवदत्तः किमेकपत्रीयं पुस्तकम् ? भारविः एकश्लोकीयं पुस्तकं श्रीमन् !
देवदत्तः दर्शय तं श्लोकम्, यमुद्दिश्य पुस्तकं ग्रथितम् । भारविः क्रयेण विना भवांस्तं द्रष्टुं नाऽर्हति ।
देवदत्तः तद् भद्र ! किं मूल्यमस्य ?
Jain Education International
१३५
For Private & Personal Use Only
www.jainelibrary.org