________________
KAL
पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः ॥५॥ सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥६॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवाद्गृहस्थानां देशतस्तद्विधिस्त्वयम् ।।७।। न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मतः ।।८।। तत्र शुद्धां महीमादौ गृह्णीयात् शास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ॥९॥ अप्रीति व कस्याऽपि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥१०॥ आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिं शरीरिणाम् ॥११।। इष्टकादिदलं चारु दारु वा सारवन्नवम् । गवाद्यपीडया ग्राह्य मूल्यौचित्येन यत्नतः ॥१२॥ भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ॥१३॥ जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद्विम्बं साधिष्ठानं हि वृद्धिमत् ।।१४।। विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥१५।। लोकोत्तरमिदं ज्ञेय-मित्थं यद्विम्बकारणम् । मोक्षदं लौकिकं चाऽन्यत् कुर्यादभ्युदयं फलम् ॥१६।। इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाऽऽप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाक् देशीयस्तु व्यक्तिक्षेत्रमहाह्वया ॥१७॥
0
NEPAL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org