________________
तावके मरुवणे !!!
३५१
कामनानां वनी यत्त्वयोत्सादिता तत्फलं दृश्यते तावके मरुवणे ॥१॥
खण्डितं यत्तपो हन्त सारस्वतम् तत्समालक्ष्यते तावके विनशने ॥२॥
लाञ्छितं यद्यशः कस्यचिद्गास्वम् प्रत्यभिज्ञायते तत्तवाऽऽस्कन्दने ॥३॥
सुस्थिरा प्राणयात्रा यदुच्चाटिता दृश्यते सैव ते नित्यमाहिण्डने ॥४॥
लुण्ठितं कस्यचिज्जातु यद् हर्षणम् तत्समालोक्यते तावके क्रन्दने ॥५॥
यत्त्वयोपेक्षितं शाम्भवं वैभवम् तत्स्थिरं निस्त्रपे तेऽद्य भिक्षाटने ॥६॥
मन्दिरं हा स्मशानीकृतं यत्त्वया तेन जीवस्यसम्भावनेऽपावने ॥७॥
रक्षितं यन्न शीलं त्वयेन्द्रोत्कया कान्तशप्ताऽभिलुप्ता ततोऽश्मायने ॥८॥
हन्त, सीता दशग्रीवरागोन्मदा वीक्षिता त्वत्प्रणीते हि रामायणे ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org