SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ TER गतभीरहं जातः गृहं दृष्ट्वा भृशाऽऽक्रान्तं मलिम्लुचसञ्चरत्संघैः निधाय द्वारि भीषणकुक्कुरं गतभीरहं जातः ॥१॥ 438 समुत्थो यस्सदा सर्वैः समं, फलिते ममाऽऽम्रवणे समारोप्याऽत्र ब—रान् विवादोऽसौ स्वयं यातः ॥२॥ मया सम्पोषितो यस्सोदरो रक्तं पिबन्नासीत् पृथग्भूतस्स जानीतेऽद्य नो सन्ध्यां न वा प्रातः ॥३॥ स्वसिद्धान्तं दृढीकर्तुं वरोपायस्त्वयाऽन्विष्टः स्वयं यन्नोच्यते मयका बुधैः पूर्वं समाम्नातः ॥४॥ कुशाग्राश्चाऽप्यभूवन् वैरिणस्सति नग्नपादे मयि क्व शूलं कण्टकञ्च सपादुके व नु दुस्सहोद्घातः ॥५॥ कियच्चित्रं यदाऽऽसं जातु भीतरसङ्कटेभ्योऽहम् इदानीं प्रेक्ष्य मामेव द्रवति दूरं विपद्वातः ॥६॥ सहायित्वं न भेजे कोऽपि मे ऋजुपथसमायिणः इदानीं याचते साह्यं न कः सम्बोध्य मां भ्रातः ॥७॥ प्रकृतिमिथ्याभिनयमुक्ते स्वतंत्रे सांख्यपुरुषे मयि गुणानां कुत्र वैषम्यं व वा सहजस्त्रितयतापः ॥८॥ दुकूलं वानचित्रितमिव मदीयं जीवनं नूनम् क्वचिद्यस्मिन् सरसवापी वचित्खलु शैलसंघातः ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy