SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ OMG.. ATARN DDA MALI जैनाचार्यश्रीबिजायनेम्मित्सरिविरच्चिना स्वाध्यायः रघुवाशद्धितीयामागंटीबका पोरच्चाद्या विजयशीलचन्द्रसूरिः विंशतितमे शतके जैनसङ्के सर्वतोमुखप्रतिभाभाजो धर्मप्रभावकाश्चाऽऽचार्यॐ श्रीविजयनेमिसूरीश्वरमहाराजाः समजायन्त । सम्यग्ज्ञानोपासनपरमश्रद्धालुभिस्तैर्जेनतर्कविषया हैमव्याकरणसम्बद्धाश्च नैके ग्रन्थाष्टीकाग्रन्थाश्च विरचिताः सन्ति । तेषु च बहुशो ग्रन्थाः प्राकाश्यमपि सम्प्राप्ता वरीवृत्यन्ते । अथैतेषामेकोऽप्रकाशितोऽपूर्णश्च टीकाग्रन्थोऽस्ति महाकविकालिदासविरचित-रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य वृत्त्यात्मकः । केवलं त्रिंशतः श्लोकानेवाऽधिकृत्य विरचिता टीकैषाऽत्यन्तं विशदा, विस्तृता, मर्मग्राहिणी, तात्पर्यबोधनी Kा चाऽस्ति तथा सहृदयपठितुश्चित्ते चमत्कारं हृदये आनन्दमाह्लादं च जनयन्ती विविधान् हो र विषयान् समकालमेव बोधयित्री विद्यते । व्याकरणाध्ययनानन्तरं तर्कपठनोपक्रमाच्च पूर्वं रघुवंश-कुमारसम्भव9 किरातार्जुनीय-शिशुपालवध-नैषधीयचरिताभिधानां पञ्चानां महाकाव्यानां विशदाध्ययनं र तद्गतकाव्यतत्त्व-रसालङ्कारादीनां बोधश्च व्युत्पत्त्यर्थं संस्कृतसाहित्यमहार्णवावगाहनार्थं A चाऽऽवश्यकमनिवार्यं च - इति किल संस्कृतभाषासाहित्याध्येतॄणां प्राचीना विद्वज्जनसम्मता A च परम्परा । जैनमुनिष्वपि परम्परैषाऽद्यावधि प्रचलिता सन्मान्या चाऽऽसीत् । किन्तु दुरदृष्टवशात् सङ्कचितचित्तवृत्तय ऐदंयुगीना धार्मिका एतेषां महाकाव्यानामध्ययनाध्यापनाभ्यां KI विमुखीभूताः सन्ति । अतः संस्कृतज्ञत्वेऽपि तेषां व्युत्पन्नता नितरामर्धदग्धत्वेनाऽनुबोभूयते । ) किञ्च रघुवंशमहाकाव्योपरि नैकैचॅनमुनिभिष्टीकाग्रन्था विरचिताः सन्ति ये (HTS त्वद्याऽप्यप्रकाशिता एव । रसिकाभ्यासकानां कर्तव्यमिदं यत् प्रतनज्ञानमन्दिरेषु सुरक्षिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy